________________
प्रकाशिका टीका सू० ४ जम्बूद्वीपप्राकारभूतजगत्याः वर्णनम् ग्मानि, अङ्कमयाः-अङ्करत्नमयाः, पक्षाः -वेदिकावयवाः, पक्षवाहाः वेदिकावयवकविशेषाश्च, ज्योतिरसमयाः-ज्योतिरस-नामकरत्नमयाः--वंशाः-पृष्ठवंशाः महान्तो मध्यवलका इत्यर्थः, वंशकवेल्लुकानि-तत्र वंशाश्च-महतां पृष्ठवंशानामुभयपार्श्वयोस्तिर्यक् स्थाप्यमानाः वंशाः कवेलुकानि-तदुपरि आच्छादनविशेषाश्च एतान्यापि ज्योतीरसभयानि रजतमय्यः- रूप्यमय्यः पट्टिका:-बंशानामुपारि कम्बा स्थानीयाः प्रतराः, जातरूपमय्यः-सुवर्णविशेषमय्यः अवघाटिन्यः-कम्बोपरिस्थाप्यमानाच्छादनभूतमहाप्रमाणकिलिचस्थानीयाः, वज्रमय्यः- वज्ररत्नमय्यः, उपरि-अवघाटिनीनामुपरि पुञ्छन्यःनिविडतराऽऽच्छादनभूतचिक्कणतरतृणविशेषस्थानीयाः, सर्वश्वेतं सर्वात्मना श्वेत-श्वेतवर्ण रजतमयं रूप्यमयं छादनम्-आच्छादनम् । सा पूर्वोक्ता खलु पमवावेदिका एकैकेन हेम जालेन स्वर्णमयम लासमूहेन 'संपरिक्षिप्ता' इति परेण सम्बन्धः, एवमग्रेऽपि, एकैकेन कनकजालेन- पीतवर्णस्वर्णविशेषमयमालासहेन, एकैकेन किङ्किणीजालेन-क्षुद्रयाण्टिकासमूहे ने, एकैकेन घण्टाजालेन-घण्टासमूहेन एकैकेन मुक्काजालेन-मुक्ताफलमयमालासमूहेन, एककेन कनकजालेन मणिजालेन-मणिमयमालासमूहेन, एकैकेन कनकजालेन पी सुवर्णमयमालासमूहेन एकैकेन रत्नजालेन-हीरकादिरत्नमयमालासमूहेन, एकैकेन पदमजालेन सर्वरत्नमयेन कमलमालासमूहेन सर्वतः सवेदिक्षु समन्तात् सर्वविदिक्षु संपरिक्षिप्ता-सम्यक् परिवेष्टिता तानि-हेमजालादीनि जालानि-दामानि मालाः, तपनीयलम्बसकानि तपनीयं- रक्तवणे स्वर्ण तन्मयोलम्बूसका:- मालाग्रभागस्थमण्डनविशेषो येषां तानि तथा, तथा-सुवर्णप्रतरक्रमण्डितानि-सुवर्णमयपत्रभूषितानि तथा नाना मणिरत्न हारार्द्धहारोपशोभितसमुदयानि, तत्र-नाना- अनेक प्रकारकाणि यानि मणिरत्नानि मणयामर तादयः रत्नानि-कर्केतनादोनिच तेषां -तत्सम्बन्धिनः- तद्रचिता ये विविधा हाराहाराः तत्र हाराः - अष्टादशसरिकाः, अर्द्धहाराः- नवसरिकाश्च हारविशेषाः, तैरुपशोभितः अलकृतः समुदयः समूहो येषां तानि तथा, तथा- ईषदन्योऽन्यमसम्प्राप्तानि-ईषत किंचित अन्योऽन्यं -परस्परम्, असम्प्राप्तानि. असंलग्नानि, तथा पूर्वापरदक्षिणोत्तराऽऽगतैः पूर्वपश्चिमदक्षिणोत्तरदिग्भ्यः समागतैः वातैः वायुभिः मन्दं सन्दम् अतिमन्दम किञ्चिदित्यर्थः एजमानानि एजमानानि पुनः पुनः कम्पमानानि, प्रलम्बमानानि प्रलम्बमानानि इतस्ततः किञ्चिच्चलनेन पुनः पुनः लम्बितानि भवन्ति तथा 'पझं झमाणाई' इति शब्दायमानानि २ परस्परं संघर्षवशात् पुनः पुनः शब्दं कुर्वाणानि, तथा -उदारेण- विशालेन व्यापकेनेत्यर्थः, अस्य 'शब्देने' ति परेण सम्न्धः एवमग्रेऽपि. भनोज्ञेन - मनोऽनुकूलेन, मनोऽनुकूलत्वं लेशतोऽपि स्यादन आह-मनोहरेण-श्रोतृजनमनोहरण तारकेण अतएव कर्णमनोनिवृतिकरेण प्रतिश्रोतकर्गमनःसुखोत्पादकेन शब्देन तान् पद्मवरवेदिकाऽसन्नान् सर्वतः सर्वदिक्षु आपूरयमाणानि २ वारंबारपूरितान् कर्वाणानि, श्रिया- शोभया अतीव २ अत्यधिकं यथा स्थात्तथा उपशोभमानानि २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org