SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६२ प्रायश्चित्तसंग्रहे ___ उपयोगात्-तात्पर्यात् । व्रतारोपात्-स्वस्मिन् व्रताध्यारोहणात् । पश्चात्तापात्-अनुतापात् । प्रकाशनात्-आत्मगतदोषप्रकटीकरणाच हेतोः । पादांशार्धतया-पादांशेन सर्वैरतैः पूर्वोक्तैः कृत्वा कृतदोषस्य चतुर्भागतया विनाशो भवति, अर्धतया कृतदुष्कृतस्य अध(शेन च नाशः स्यात् । सर्व-निःशेषं च । पापं—किल्विषं । नश्येत्-विनश्यति पलायते । विरागतः-विगतो रागो यस्माद्भावात् स विरागः तस्माद्विरागतः विरागात् वैराग्यात् संसारशरीरविषयनिर्वेदादपि विशुद्धभावपरंपराक्शात् सकलमलकलङ्कपरिपातो भवति ॥ १५९ ॥ अवद्ययोगविरतिपरिणामो विनिश्चयात् । प्रायश्चित्तं समुद्दिष्टमेतत्तु व्यवहारतः ॥ १६०॥ अवद्ययोगविरतिपरिणामः-सर्वसावद्यसम्बन्धविनिवृत्तस्य य एव (?) । विनिश्चयात्-निश्चयनयापेक्षया शुद्धनयात् परमार्थोदयादित्यर्थः । प्रायश्चित्तं-मलहरणं । समुद्दिष्टं--अनूदितं । एतत्तु-यत्पुनरालोच्यते प्रदीयते विधीयते च प्रायश्चित्तं तत्सर्व । व्यवहारतः-व्यवहारनयापेक्षया भवति । तौ च व्यवहारनिश्चयनयौ अनादिबद्धावन्योन्यापेक्षौ च सन्तो सम्यग्व्यपदेशमुपलभेताम् ॥ १६० ॥ प्रायश्चित्तं प्रमादेऽदः प्रदातव्यं मुनीश्वरैः। अपि मूलं प्रकर्तव्यं बहुशो बहुशो भवेत् ॥ १६१॥ प्रायश्चित्तं-विशोधनं । प्रमादेऽदः---अदः एतत् आगमविनिर्दिष्टं, प्रमादे कथंचिद्दोषसम्पन्ने सति भवति । प्रदातव्यं-वितरितव्यं । मुनीश्वरैःआचार्यैः । अपि मूलं प्रकर्तव्यं--मूलमपि कर्तव्यं विधातव्यं । बहुशो बहुशः--अनेक शोऽनेकशो दोषमाचरतः सतः साधोः। भवेत् स्यात्॥१६१॥ गृहीतव्यं त्रयाणां न हितं स्वस्मै समीप्सुभिः। नरेन्द्रस्यापि वैद्यस्य गुरोहितविधायिनः ॥ १६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy