________________
प्रायश्चित्त- चूलिका |
गृहीतव्यं -- गोपयितव्यं । त्रयाणां न त्रयाणां पुरुषाणां गोपनं न भवति । हितं स्वस्मै समीप्सुभिः - आत्महितमिच्छुभिर्मनुष्यैः । नरेन्द्रस्य - राज्ञः । अपि वैद्यस्य – भिषजोऽपि । गुरोः - आचार्यस्य च । हितविधायिनः — हितकारिणः तन्नरेन्द्रादेः ॥ १६२ ॥
यावन्तः स्युः परीणामास्तावन्ति च्छेदनान्यपि । प्रायश्चित्तं समर्थः को दातुं कर्तुमहो ! मते ॥ १६३ ॥
यावन्तः --- यत्परिमाणाः । स्युः - भवेयुः । परीणामाः संप्रवृत्तयः । तावन्ति - तत्परिमाणानि । छेदनान्यपि —- प्रायश्चित्तानि च भवन्ति । अतः कारणात्, प्रायश्चित्तं समर्थः कः कः पुरुषः, प्रायश्चित्तं विशुद्धिं, समर्थः शक्तः । दातुं — वितरितुं । कर्तुं विधातुं च । अहो –आश्चर्यं । मते - शासने आगमे ॥ १६३ ॥
प्रायश्चित्तमिदं सम्यग्युंजानाः पुरुषाः परं ।
लभन्ते निर्मलां कीर्ति सौख्यं स्वर्गापवर्गजम् ॥ १६४ ॥ प्रायश्चित्तं -- छेदनं । सम्यक् - अनुविधानेन । युंजाना: - सम्बन्धन्तः सन्तः । पुरुषा:- मनुष्याः । परं - - प्रधानमग्रचं च । लभन्ते - अवाभुवन्ति । निर्मलां शुद्धां निष्कलङ्कां । कीर्ति - यशः । सौख्यं - सुखं च लभन्ते । स्वर्गापवर्गजं - अणिमादिकाष्टगुणैश्वर्यसंयुक्तं दिव्यमैन्द्रादि, अपवर्गजं मोक्षजं निखिलकर्ममलपटलविकलस्य सकलविमलकेवलज्ञानादिगुणात्मकस्यात्मनो विशुद्ध रूपावस्थानस्वभावमोक्षोत्पन्नं च सौख्यं लभन्ते ॥ १६४ ॥
-
चूलिकासहितो लेशात् प्रायश्चित्तसमुच्चयः । नानाचार्यमतान्यैक्याद्बोद्धुकामेन वर्णितः ॥ १६५ ॥
Jain Education International
१६३
―――
चूलिकासहित: -- चूलिकासमन्वितः । लेशात् - अंशात् उद्देशात् संक्षेपात् । प्रायश्चित्तसमुच्चयः - प्रायश्चित्तसमुच्चयाभिधानः प्रायश्चित्तसंक्षेपाख्यो
For Private & Personal Use Only
www.jainelibrary.org