________________
प्रायश्चित्त- चूलिका |
क्षौरं कुर्याच्च लोचं वा पाणौ भुंक्तेऽथ भाजने । कौपीनमात्रतंत्रोऽसौ क्षुल्लकः परिकीर्तितः ॥ १५६ ॥
क्षौरं - क्षुरकर्म शिरोमुण्डनं । कुर्यात् — विदध्यात् । लोचं वा-वालोत्पाटनं वा करोति । पाणौ भुंक्तेऽथ भाजने पाणौ पाणिपात्रे, भुंक्ते वल्भते, अथ अथवा, भाजने कंसपात्र्यादिके भुंक्ते । कौपीनमात्रतंत्रः कौपीनमात्रं तंत्रं यस्य स कौपीनमात्रतत्रः कर्पटखण्डमण्डितकटीतटः । असौ-पूर्वोक्तविधानपरिवर्णितः । क्षुल्लकः -- उत्कृष्टाणुव्रतधारी । परिकीर्तितः -- समुद्दिष्टः ॥ १५६ ॥
-
- |
सद्दृष्टिपुरुषाः शश्वद्धर्मोद्दाहादि बिभ्यति । लोभमोहादिभिर्धर्मदूषणं चिन्तयन्ति न ॥ १५७ ॥ सदृष्टि पुरुषाः सम्यग्दृष्टिमनुष्याः । शश्वत् — सर्वकालं । धर्मोद्दाहात् - धर्मोपतप्तेः सकाशात् । हि--यस्मात् । बिभ्यति -- अभित्रसन्ति । अतो हेतोः, लोभमोहादिभिर्धर्मदूषणं चिन्तयन्ति न-लोभेन परिग्रहमूर्छया, मोहेन स्नेहेन, आदिशब्देन द्वेषादिभिरपि दोषविशेषैः कृत्वा, धर्मदूषणं शासनकलंकं, न चिन्तयन्ति नाभिवाञ्छन्ति ॥ १५७ ॥
१६१
।
प्रायश्चित्तं न यत्रोक्तं भावकालक्रियादिकं । गुरूद्दिष्टं विजानीयात्तत्प्रनालिकयानया ॥ १५८ ॥ प्रायश्चित्तं -- विशोधनं । न यत्रोक्तं --यत्र यस्मिन् दोषविशेषे नोक्तं नाभिहितं । भावकालक्रियादिकं - - भावः परिणामः, कालस्त्रिविधः शीतकालः उष्णकालः साधारणकाल इति, क्रिया करणं सचित्ताचित्तमिश्रद्रव्यप्रतिसेवनं, आदिशब्देन क्षेत्रोत्साहादि च यत्र नोपदिष्टं । गुरूद्दिष्टं विजानीयात्तत्सर्वं गुरूद्दिष्टमाचार्यवर्योपदेशतः विजानीयादधिगच्छेत् । प्रनालिकयानया - अनया एतया प्रनालिकया पद्धत्या दिशा ॥ १५८ ॥
उपयोगाद्वतारोपात् पश्चात्तापात्प्रकाशनात् । पादांशार्धतया सर्वे पापं नश्येद्विरागतः ॥ १५९ ॥
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org