________________
१६०
प्रायश्चित्तसंग्रहे
र्भवति-सूतकं नास्ति । गृहिते-श्रावके च । एतस्मिन् सति तत्क्षणादेव शुद्धिर्भवति ॥ १५२॥
ब्राह्मणक्षत्रविद्रा दिनैः शुद्धयन्ति पंचभिः।
दशद्वादशभिः पक्षाद्यथासंख्यप्रयोगतः ॥ १५३॥ ब्राह्मणक्षत्रविट्छुद्राः-ब्राह्मणा विप्राः, क्षत्राः क्षत्रियः, विशो वैश्याः, शूद्रा आभीरकुंभकारतक्षकादयः । दिनैः-दिवसः । शुद्ध्यन्ति-सूतकरहिता भवन्ति । पंचभिः (दशभिः) - ब्रह्मणाः । पंचभिर्दिवसः क्षत्रियाः शुद्धयन्ति । द्वादशभिः-दिवसैः वैश्याः शुद्ध्यन्ति । पक्षात् --पंचदशभिदिवसैः शूद्राः संशु-ट्यन्ति । यथासंख्यप्रयोगतः-यथाक्रमयुक्तया॥१५३॥
कारिणो द्विधाः सिद्धा भोज्याभोज्य प्रभेदतः ।
भोज्येष्वेव प्रदातव्यं सर्वदा क्षुल्लकव्रतं ॥१५४ ॥ कारिणः-कारवः । द्विविधाः-विभेदाः । सिद्धाः-लोकत एव प्रसिद्धाः । भोज्याः-यदन्नपानं ब्राह्मणक्षत्रियविट्छूद्रा भुंजन्ते । अभोज्याः-तद्विपरीतलक्षणाः। भोज्येष्वेव प्रदातव्या क्षुल्लकदीक्षा नापरेषु॥१५४॥
क्षुल्लकेष्वेककं वस्त्रं नान्यन्न स्थितिभोजनम् ।
आतापनादि योगोऽपि तेषां शश्वनिषिध्यते । १५५॥ क्षुल्लकेषु-सर्वोत्कृष्टश्रावकेषु । एकक-एकं । वस्त्रं--अम्बरं पटः । नान्यत्--अन्यदितीयं वस्त्रं न भवति । न स्थितिभोजनं-उद्भीभूयाभ्यवहारोऽपि न भवति । आतापनादियोगोऽपि-आतापनवृक्षमूलाभ्रावकाशयोगश्च । तेषां-क्षुलकानां । शश्वत्-सर्वकालं । निषिध्यते-प्रतिषिध्यते ॥ १५५॥
१ अत्र क्षत्रब्राह्मणविट्छुद्राः इत्येवं रूपेण पाठेन भवितव्यं । अन्यथा छेदपिण्डछेदशास्त्र इति शास्त्रद्वयविरोधः स्यात् ।
२ अत्रस्थः पाठः पुस्तकाच्च्युत इत्यवभाति अतः दशभिः दिवसैः ब्राह्मणा शुद्धयन्ति इत्येवं रूपेण पाठेन भवितव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org