________________
प्रायश्चित्त-चूलिका।
१५९
सबो (यो) लंघि(वि)तगोघातप्रहारः (?) गोघ (ह) तिः गोघातः गोधातेन समाहतं यस्य स गोघातसमाहतः तं च, वन्दीगृहसमाहतं वन्दीगृहेण समाहतं यस्य स वन्दीगृहसमाहतः तमपि । कृमिदष्टं च-कृमिक्षतमपि च । संस्पृश्य-स्पृष्ट्वा । क्षमणानि षडश्नुते-षट् क्षमणानि उपवासान् अश्नुते प्राप्नोति । मृतकं उद्घद्धमृतं गोविहितं (?) वन्दीगृहनिपतितं कृमिहतमित्येतान् यदि स्पृशति तदानीं तत्प्रायश्चित्तं भवतीति भावार्थः ॥ १४९ ॥
सुतामातृभगिन्यादिचाण्डालीरभिगम्य च ।
अनुवीतोपवासानां द्वात्रिंशतमसंशयं ॥ १५ ॥ सुतामातृभगिन्यादिचांडालीः-सुता दुहिता पुत्री, माता जननी, भगिनी स्वसा, आदिशब्देन मातृण्वसास्वश्रूस्नुषा इत्येताश्च, चाण्डालीः चाण्डालमातंगवनिताद्याश्च । अभिगम्य-संसेव्य । अश्नुवीतप्राप्नोति । उपवासानां द्वात्रिंशतं-द्वात्रिंशदुपवासान् । असंशयं-असंदिग्धम् ॥ १५० ॥
कारूणां भाजने भुक्ते पीतेऽथ मलशोधनम् । विशोषा पंच निर्दिष्टा छेददक्षैर्गणाधिपैः ॥ १५१ ॥ कारूणां-कारूणामभोज्यानां । भाजने-पात्रे । भुक्ते--ऽभ्यवहते सति । पीतेऽथ-अथवा पीते च सति । मलशोधनं-प्रायश्चित्तं । विशोषाः पंच-पंच विशोषा विशोषणा । निर्दिष्टा:-कथिताः । छेददक्षैः-प्रायश्चित्तशास्त्रकुशलैः । गणाधिपः-आचार्यवगैः ॥ १५१ ॥
जलानलप्रवेशेन भृगुपाताच्छिशावपि। बालसंन्यासतः प्रेते सद्यः शौचं गृहिव्रते ॥ १५२ ॥ जलानलप्रवेशेन-जलप्रवेशेन पानीये प्रवेशं विधाय प्रेते सति, अनल. प्रवेशेन अग्निप्रवेशेन च प्रेते । भृगुपातात्-पतनात् हेतुभूतात् । शिशा. वपि-जाले च प्रेते । बालसंन्यासतः-बालसंन्यासात् मिथ्यादृष्टिसंन्या सेन च कृत्वा । प्रेते-स्वजने मृते । सद्यः--झटिति । शौचं-शुद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org