SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १५३ mirmirror.rrrrrrrrrrrrrrrrr क्षान्त्या पुष्पं प्रपश्यन्त्या तद्दिनात् स्याच्चतुर्दिनम् । आचाम्लनीरसाहारः कर्तव्या चाथवा क्षमा ॥ १३४॥ क्षान्त्या-आर्यया । पुष्पं-रजः । प्रपश्यन्त्या---अवलोकमानया । तदिनात्-यस्मिन् दिवसे तदृष्टं तस्मादिनादिवसात् प्रभृति । स्यात्-भवेत् । चतुर्दिनं-दिनचतुष्टयं । आचाम्लं-असंस्कृतकंजिकभोजनं । नीरसाहारः-निर्गता रसा विकृतयः तिक्तकटु कादयो यस्मादसौ नीरसः स चासौ आहारः निर्विकृतिः, यथासिद्धस्य रूक्षाहारस्य भोजन तक्रेण वा शक्त्यपेक्षया । कर्तव्या-करणीया । चाथवा क्षमा-अथवा क्षमा क्षमणं ॥१३४॥ तदा तस्याः समुद्दिष्टा मौनेनावश्यकक्रिया । व्रतारोपः प्रकर्तव्यः पश्चाच्च गुरुसन्निधौ ॥ १३५ ॥ तदा-तस्मिन् काले । तस्याः-आर्यायाः। समुद्दिष्टा--निगदिता । मौनेन-तूष्णीं भावेन । आवश्यकक्रिया--समतास्तववन्दनाप्रतिक्रमणप्रत्याख्यानकायोत्सर्गाणां षण्णामावश्यकानां करणं । व्रतारोपः-व्रतारोपणं । प्रकर्तव्यः-विधातव्यः । पश्चाच्च -तदनन्तरमस्ति । गुरुसन्निधौआचार्यसमीपे ॥ १३५ ॥ स्नानं हि त्रिविधं प्रोक्तं तोयतो व्रतमंत्रतः । तोयेन स्याद्गृहस्थानां साधूनां व्रतमंत्रतः ॥ १३६ ॥ स्नानं-सर्वाङ्गशुद्धिः शौचं । हि-यस्मात् । त्रिविधं---त्रिभेदं । प्रोक्तं--परिकथितं । तोयतः--तोयेन जलेन । व्रतमंत्रतः-व्रतेन संयमेन विशुद्धध्यानेन, मंत्रतः मंत्रेण परममंत्रपदोच्चारणैश्च विद्यादिभिः कृत्वा । एवं त्रिप्रकारं स्नानं भवति। तत्र, तोयेन-पानीयेन स्नानं । स्यात्-भवेत् । गृहस्थानां-गृहिणां । साधूनां-यतीनां तु । व्रतमंत्रतः व्रतैमैत्रैः स्नानं शौचं भवतीति । इयं परमार्थशुद्धिः । व्यवहारशुद्धिस्तु चाण्डालादि. संस्पर्श सति व्रतं परिपालयद्भिः साधुभिः जलेनापि विधातव्या ॥ १३६ ॥ संयतिका-प्रायश्चित्तं । - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy