SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५२ प्रायश्चित्तसंग्रहे श्चित्तं । उद्दिष्टं-कथितं । सोपस्थानं--सप्रतिक्रमणं । विशोधनं-मल हरणम् ॥ १३० ॥ येन केनापि तल्लब्धं पुनद्रव्यं च किंचन । वैयावृत्यं प्रकर्तव्यं भवेत्तेन प्रयत्नतः ॥ १३१ ॥ येन केनापि-येन केनचिदुपायेन । तत्-पूर्वोक्तं । लब्धंप्राप्तं । पुनः-पुनरपि भूयः । द्रव्यं च-धनमपि । किंचन--कियदपि । वैयावृत्यं प्रकर्तव्यं भवेत्तेन-तेनार्थेन, वैयावृत्यं धर्मप्राणिनामुपकारः, प्रकर्तव्यं विधेयं, भवेत् स्यात् । प्रयत्नतः-प्रयत्नान्निराबाधं । तदेव तस्याः प्रायश्चित्तम् ॥ १३१ ॥ भ्रातरं पितरं मुक्त्वा चान्येनापि सधर्मणा । स्थानगत्यादिकं कुर्यात् सधर्मा छेदभागपि ॥ १३२ ॥ भ्रातर--सहोदरं । पितरं--जनकं । मुक्त्वा -परित्यज्य । अन्येन-- परेण । अपि सधर्मणा--सधर्मणापि आस्तां तावदन्येन पुरुषेण गुरुभ्रात्रापि सह यदि, स्थानगत्यादिकं-स्थानं कायोत्सर्ग, गतिर्यानं मार्गगमनं, आदिशब्देनागमनं सहस्थितिप्रभृतिं च एकाकिनी, कुर्यात्-विधत्ते तदानीं, सधर्मा छेदभागपि-आस्तां तावदार्या सधमपि गुरुभ्रातापि, छेदभाक् प्रायश्चित्तभागी भवति ॥ १३२ ॥ बहून् पक्षांश्च मासांश्च तस्या देया क्षमा भवेत् । बलं भावं वयो ज्ञात्वा तथा सापि समाचरेत् ॥ १३३ ॥ बहुन् - अनेकान् । पक्षान्-पंचदशरात्रान् । मासांश्च-त्रिंशद्रात्रानपि । तस्याः--पूर्वोक्ताया आर्यायाः । देया--दातव्या । क्षमाक्षमणं । भवेत्-स्यात् । बलं-सामर्थ्य स्थाम । भावं-परिणामं तीव्रमन्दमध्यमविशेषविशिष्टैः । वयः--दशां। ज्ञात्वा-अवगम्य। तथा---तेनैव न्यायेन । सापि--प्रागभिहितार्या च । समाचरेत्-कुर्यात् ॥ १३३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy