________________
प्रायश्चित्त-चूलिका।
१५१
उभयोरपि-द्वयोरपि रूपधारिणोः । नो नाम ग्राह्य-नामाभिधानं नो ग्राह्यं नादेयं न वक्तव्यं । धिक्--कष्टं । नीचकर्मणोः-निकृष्टचेष्टयोः । अन्यश्चेत्कोऽपि तब्रूयात्-चेयदि, अन्यः कोऽपि अपरश्च कश्चित्, तत्पूर्वोक्तं दूषणं, ब्रूयाज्जल्पति । पिधातव्ये ततः श्रुतीपिधातव्ये छादयितव्ये, ततस्तदनन्तरं, श्रुती कर्णौ ॥ १२७ ॥
स नीचोऽप्यनुते शुद्धिं शुद्धबुद्धिः प्रयत्नतः।
देशकालान्तरात्तत्र लोकभावमवेत्य च ॥ १२८॥ सः-पूर्वोक्तसंयमरूपानुकारी । नीचोऽपि-अधर्मोऽपि । अनुते---- प्रामोति । शुद्धिं--प्रायश्चित्तं । शुद्धबुद्धिः-विविक्तमतिः सन् । प्रयत्नतः-प्रयत्नेन सम्यग्विधानेन । देशकालान्तरात्-कालान्तरे महति कालेऽतिकान्ते । तत्र लोकभावमवेत्य च-तत्र देशे यत्र प्रायश्चित्तं तस्य प्रदीयते, लोकभावं जनपरिणामं, अवेत्य च परिज्ञायापि अस्मिन् देशे दोषं न तावत्कोऽपि परिगृह्णातीति सम्यगवगम्य । अनेन विधानेनास्य विशुद्धिविधीयते ॥ १२८॥
शपथं कारयित्वाथ क्रियामपि विशेषतः । बहूनि क्षमाणान्यस्य देयानि गणधारिणा ॥ १२९॥ शपथं-कोश । कारयित्वा--विधाप्य । अथ-अनन्तरं । क्रियामपि-प्रतिक्रमणं च । विशेषतः-सविशेषं । बहूनि क्षमणानि-बहब उपवासाः । अस्य-एतस्य साधोः । देयानि-दातव्यानि । गणधारिणा-गणधरेण ॥ १२९ ॥
द्रव्यं चेद्धस्तगं किंचिद्वन्धुभ्यो विनिवेदयेत् ।
तदास्याः षष्ठमुद्दिष्टं सोपस्थानं विशोधनम् ॥ १३० ॥ द्रव्यं-वित्तं । चेत्-यदि । हस्तगं-करस्थं । किंचित्-किमपि हिरण्यसुवर्णादि यत्तत् । बन्धुभ्यः-स्वजनेभ्यः । विनिवेदयेत् -प्रयच्छति । तदा-तस्मिन् काले । अस्याः--एतस्या आर्यायाः । षष्ठं--षष्ठ प्राय
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org