SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे श्रमणच्छेदनं यच्च श्रावकाणां तदेव हि । द्वयोरपि त्रयाणां च षण्णामर्धार्धहानितः ॥ १३७ ॥ श्रमणच्छेदनं -- श्रमणानां साधूनां छेदनं प्रायश्चित्तं । यच्च यदेव प्रागुपदिष्टं । श्रावकाणां - उपासकानां । तदेव हि तदेव प्रायश्चित्तं भवति क्रमेण । द्वयोरपि - आययोरुभयोश्च । त्रयाणां - - मध्येगतानां च । षण्णां - ततः परं षण्णामपि श्रावकाणां । अर्धार्धहानिक्रमेण । एकादश श्रावका भवन्ति । उक्तं च १५४ दर्शनोऽणुव्रतश्चैव ससामायिक इत्यपि । प्रोषधो विरतचैव सचित्ताद्दिनमैथुनात् ॥ १ ॥ ब्रह्मवती निरारंभश्रावको निष्परिग्रहः । निरनुज्ञो निरुद्दिष्टः स्यादेकादशधेति सः ॥ २ ॥ इति । अत्राययोर्निरुद्दिष्टनिरनुज्ञयोरुत्कृष्टभावकयोः भवति । ततः निष्परिग्रहनिरारंभब्रह्मचारिणां त्रयाणां श्रावकाणां उत्कृष्ट श्रावकप्रायश्चित्तस्यार्धं भवतीत्यभिसम्बन्धः ॥ १३७ ॥ केचिदाहुर्विशेषेण त्रिष्वप्येतेषु शोधनम् । द्विभागोऽपि त्रिभागश्च चतुर्भागो यथाक्रमम् ॥ १३८ ॥ केचिदाहुः केचित् केचन आचार्याः, आहुः ब्रुवन्ति । विशेषेणभेदान्तरेण । त्रिष्वप्येतेषु - एतेषु पूर्वोक्तेषु श्रावकेषु त्रिष्वपि उत्कृष्टमध्यमजघन्येषु । शोधनं -- प्रायश्चित्तं भवति । द्विभागः - । अथानन्तरं त्रिभागोऽपि - तृतीयोऽशः । चतुर्भाग:-- पादः । यथाक्रमं - - यथासंख्यं । साघुप्रायश्चित्तार्थै उत्कृष्ट श्रावकयोर्भवति । श्रमणप्रायश्चित्तस्यैव तृतीयोंऽशो मध्यमानां त्रयाणां भावकाणां भवति । ऋषिप्रायश्चित्तस्यैव चतुर्भागो जघन्यानां षण्णां भवति ॥ १३८ ॥ ――― श्रमणप्रायश्चित्तस्यार्ध षण्णां स्याच्छ्रावकाणां तु पंचपातकसन्निधौ । महामहो जिनेन्द्राणां विशेषेण विशोधनम् ॥ १३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy