________________
प्रायश्चित्त- चूलिका ।
स्पर्शादीनामतीचारे निष्प्रमादप्रमादिनाम् । कायोत्सर्गोपवासाः स्युरेकैकपरिवर्द्धिताः ॥ ६३ ॥
स्पर्शादीनां - - स्पर्शरसघ्राणचक्षुःश्रोत्रेन्द्रियाणां । अतीचारे-दोषे अनिरोधे सति । निष्प्रमादप्रमादिनां - - निष्प्रामदस्य अप्रमत्तस्य, प्रमादिनः प्रमादवतव पुरुषस्य । कायोत्सर्गोपवासाः -- कायोत्सर्गा उपवासाश्च । स्युः -- भवेयुः । एकैकपरिवर्द्धिताः -- एकोत्तरवृद्धिमधिरोपिताः । स्पर्शः कर्कशमृदुगुरुलघुशीतोष्णस्निग्धरूक्षभेदादष्टविधः । रसस्तिक्तकटुककषायाम्लमधुरलवणविशेषात् षड़िधः । गन्धो द्विविधः सुरभिरसुरभिश्च । रूपं पंचप्रकारं कृष्णनीलपीतशुकुलोहितविशेषात् । शब्दः षडर्षभगान्धारमध्यमपंचमधैवतनिषादविशेतः सप्तप्रकारः । तेषु विषये दोषविशेषविशुद्धिरियं भवति । अप्रमत्तस्यैकोत्तर वृद्ध्यादिकायोत्सर्गा भवन्ति - स्पर्शे एक: कायोत्सर्गः, रसे द्वौ, घाणे त्रयः, चक्षुषि चत्वारः, श्रोत्रे पंच । प्रमत्तस्योपवासा भवन्ति--स्पर्शे एक उपवासः, रसे दौ, घ्राणे त्रयः, चक्षुषि चत्वारः, श्रोत्रे पंच उपवासा इति ॥ ६३ ॥
इन्द्रियनिरोधम् ।
१२९
चन्दनानियमध्वंसे कालच्छेदे विशोषणम् ।
स्वाध्यायस्य चतुष्केऽपि कायोत्सर्गो विकालतः ॥ ६४ ॥
-
,
वन्दनानियमध्वंसे – वन्दना अर्हदादीनामभिवादः, नियमो दैवसिकादिप्रतिक्रमणं, तयोः ध्वंसे विनिपाते सति पूर्वाह्नमध्यान्हापराह्नदेववन्दनादिविरहे रात्रिगोचरादिनियमवर्जने च । कालच्छेदे - स्वकालातिक्रमे च । विशोषणं - विशोषः उपवासः प्रायश्चित्तं भवति । स्वकालश्च वन्दनायाः सन्ध्याकालः, दैवसिक नियम स्यादित्यविम्बार्द्धास्तमनात्पूर्वमेव रात्रिनियमस्य प्रभास्फोटात्प्रागेव परिसमापनं । स्वाध्यायस्य चतुष्केऽपि -
प्रारम्भः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org