________________
१३०
प्रायश्चित्तसंग्रहे
स्वाध्यायस्य चतुष्टये च विषये ध्वंसे सति विशोषणं प्रायश्चित्तं भवति । कायोत्सर्गो विकालतः — विकालतः विकालात् स्वाध्यायस्य कालविच्छेदे सति कायोत्सर्गः प्रायश्चित्तं । स्वाध्यायस्य कालोऽपि दिवसे पूर्वाह्णे घटिकाये सति, अपराह्णेऽन्त्य नाडिकात्रयात्पूर्वे, रात्रौ प्रथमभागे नाडीत्रये गते सति चरमभागेऽन्त्यनाडित्रयात्प्राक् ॥ ६४ ॥
"
प्रतिमासमुपोषः स्याच्चतुर्मास्यां पयोधयः ।
अष्टमासेष्वथाष्टौ च द्वादशाब्दे प्रकीर्तिताः ॥ ६५ ॥
-
प्रतिमासं - मासं प्रति । उपोषः — उपोषणं । स्यात् भवेत् । मासे मासे उपवासोऽवश्यं कर्तव्यः । चतुर्मास्यां पयोधयः- चतुर्षु मासेषु गतेषु पयोधयः समुद्राश्चत्वार उपवासा अवश्यं कर्तव्याः । अष्टमासेष्वथाष्टौ चअष्टमासेषु अष्टसु मासेषु, अथ अनन्तरं, अष्टौ च अष्ट उपवासा विधातव्याः । द्वादशाब्दे - अब्दे वर्षे द्वादश उपवासाः करणीयाः । प्रकीर्तिताःकथिताः ॥ ६५ ॥
--
पक्षे मासे कृतेः षष्ठं लंधने सप्रतिक्रमम् ।
अन्यस्या द्विगुणं देयं प्रागुक्तं निर्जरार्थिनः ॥ ६६ ॥ पक्षे मासे-पक्षे पंचदशरात्रे, मासे त्रिंशद्रात्रे च विषये या कृतिः क्रिया प्रतिक्रमणा तस्याः लंघने सकृत् सति । षष्ठं – षष्ठोपवासः प्रायश्चित्तं भवति । लंघने -- अतिक्रमणे । सप्रतिक्रमं - प्रतिक्रमणया सह । अन्यस्याः -- परस्याः चातुर्मास्याः सांवत्सरिकायाश्च क्रियायाः लंघने सति । सप्रतिक्रमणं, द्विगुणं द्विः । देयं - दातव्यं । प्रागुक्तं पूर्वोपदिष्टं प्रायश्वित्तं । चातुर्मास्याः क्रियाया विलंघने सति अष्टौ उपवासा भवन्ति, सांवत्सरिकायाश्चतुर्विंशतिरुपवासाः सन्ति । निर्जरार्थिनः – कर्मक्षयाभिलाषिणः साधोः ॥ ६६ ॥
Jain Education International
आवश्यकम् ।
-
For Private & Personal Use Only
www.jainelibrary.org