SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२८ प्रायश्चित्तसंग्रहे-- स्वाध्यायरहिते--स्वाध्यायवर्जिते । काले-समये स्वाध्यायकाले स्वाध्यायक्रियामागमाध्ययनं वाविधाय । ग्रामगोचरगामिनः-ग्रामगामिनः गोचरगामिनश्च व्याध्युपवासादिकारणात् भिक्षार्थ प्रविष्टस्य सतः साधोः। कायोत्सर्गोपवासौ---ग्रामान्तरगतस्य कायोत्सर्गः । चर्यार्थ प्रविष्टस्योपवासः प्रायश्चित्तं भवतीति यथाक्रममभिसम्बन्धः ॥ ६०॥ एषणासमितिः । काष्ठादि चलयेत् स्थानं क्षिपेद्वापि ततोऽन्यतः । कायोत्सर्गमवामोति विचक्षुविषये क्षमा ॥६१॥ काष्ठादि--दारूपलतृणकर्परप्रमुखं वस्तु । चलयेत्--कंपयति ।स्थानात्-- प्रदेशात् । क्षिपेद्दापि ततोऽन्यतः--ततस्तस्मात्स्थानात्, क्षिपेदा विसृजेद्वा, अन्यतोऽन्यास्मन् प्रदेशे तदा । कायोत्सर्ग--तनूत्सर्ग । अवामोति-- लभते । अचक्षुर्विषये--अदृष्टिगोचरे। क्षमा--क्षमणं प्रायश्चित्तम् ॥६१॥ आदाननिक्षेपणासमितिः । ऊर्ध्व हरिततृणादीनामुच्चारादिविसर्जने । कायोत्सर्गो भवेत् स्तोके क्षमणं बहुशोऽपि च ॥ ६२ ॥ ऊर्ध्व--उपरि । हरिततणादीनां--हरिततृणमच्छतृणं, आदिशब्दन बीजाङ्करशिलभेदपृथ्वीभेदादीनां चोपरिष्टात् । उच्चारादिविसर्जने---मूत्रपुरी षादिमलोज्झने कृते सति । कायोत्सर्गः--तनूत्सर्गः। भवेत्---स्यात् । स्तोके--स्तोकवारे । क्षमणं बहुशोऽपि च बहुवारेष--च क्षमणमुपवासः प्रायश्चित्तं भवति ॥ ६२॥ प्रतिष्ठापनासमितिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy