________________
प्रायश्चित्त- चूलिका ।
अध्यारोपः
आधाकर्मणितस्याः कर्म क्रिया .. स्मिन्नाधाकर्मणि षड्जीवनिकायवधविधानाभिसन्धिपूर्वकं स्वतः स्वभावादेव निष्पन्नान्नपाने । सव्याधेः - सरोगस्य । निर्व्याधेः -- नीरोगस्य । सकृत् - एकवारं । अन्यतः- - अन्यस्मात् असकृदित्यर्थः । उपवासः - क्षमणं । अथानन्तरं । षष्ठं – प्रायश्चित्तं । मासिकं – पंचकल्याणं । मूलमेव च - पुनर्दीक्षा । व्याध्यधीनत्वात्सकृदाधाकर्मणि भुक्ते सति उपवासप्रायश्चित्तं भवति । असकृत् षष्ठं । निर्व्याधिना सकृदाधाकर्मणि भुक्ते मासिकं । असकृत्सर्वकालं षड्जीवनिकायानामाबाधामाधाय भुक्ते सति मूलमेव प्रायश्वित्तं भवति ॥ ५७ ॥
---
-
-आधानमाधा
स्वाध्यायसिद्धये साधुर्यद्युद्देशादि सेवते । प्रायश्चित्तं तदा तस्य सर्वदैव प्रतिक्रमः ॥ ५८ ॥
---
स्वाध्यायसिद्धये - स्वाध्यायाय भवति निमित्तं ( पठननिमित्तं ) । साधुरपि । यदि -- चेत् । उद्देशादि – उद्देशकादिदोषजातं । सेवते - अनुभवति । प्रायश्वितं विशुद्धिः । तदा तदानीं । तस्य — उद्देशादिनिषेविणः । सर्वदेव सर्वकालमपि । प्रतिक्रमः — प्रतिक्रमणं । इहापि प्रतिकमो नियम इति वेदितव्यः ॥ ५८ ॥
I
एकं ग्रामं चरेद्भिक्षुर्गन्तुमन्यो न कल्पते ।
द्वितीयं चरतो ग्रामं सोपस्थानं भवेत्क्षमा ॥ ५९ ॥ एकं ग्रामं-- एकं नगरादिसन्निवेशं । चरेत् — चरति भिक्षार्थ पर्यटति । भिक्षुः - यतिः । गन्तुमन्यो न कल्पते - एकस्मिन् ग्रामे चर्यार्थ पर्यट्य तस्मिन्नेव दिवसे भिक्षार्थं द्वितीयो ग्रामं गन्तुं न कल्पते नोचितः । द्वितीयं -- अन्यं । चरतो -- भ्रमतः ग्रामं । सोपस्थानं-- सप्रतिक्रमणा भवेत् स्यात् । क्षमा--क्षमणम् ॥ ५९ ॥
स्वाध्यायर हेते काले ग्रामगोचरगामिनः । कायोत्वसौ हि यथाक्रममनूदितौ ॥ ६० ॥
Jain Education International
१.२७
For Private & Personal Use Only
www.jainelibrary.org