________________
१२६
प्रायश्चित्तसंग्रहे--
कुड्यं-भित्तिः, आदिशब्देन स्तंभप्रभृति च । आलम्ब्य-आश्रित्य । निष्ठूय-निष्ठीवनं विधाय। चतुरंगुलसंस्थितिं त्यक्त्वा--चतुरंगुलान्तरितपादविन्यासं चोन्मुच्य । उक्त्वा-निगद्य भुक्ते सति । क्षमणं-उपवासः । ग्लाने--च, पवासादिपरिपीडिते पुरुषे।भुक्ते-भुक्तवति प्रायश्चित्तं भवति । षष्ठं तथा परे-तथा- तेनैव न्यायेन, परे परस्मिन अग्लाने पुरुषे पूर्वोक्तविधानेन भुक्ते सति, षष्ठं प्रायश्चित्तं भवति ॥ ५४ ॥
काकादिकान्तरायेऽपि भन्ने क्षमणमुच्यते ।
गृहीतावग्रह त्यागः सर्व भुक्तवतः क्षमा ॥ ५५ ॥ काकादिकान्तरायेऽपि भग्ने--काकामेध्यच्छदिरोधरुधिरावलोकनाश्रुपातादिकान्तराये भने खंडिते सति । क्षमणं-उपवासप्रायश्चित्तं । उच्यते- ऽभिधीयते । गृहीतावग्रहे--उपात्तनिवृत्तौ च भंगे सति । त्यागःकृतनिवृत्तेर्वस्तुनः भोजने क्रियमाणे सति पुनः संस्मृतेः त्यागः तद्भोजनपरिहार एव प्रायश्चित्तं । सर्व भुक्तवतः-सर्वमाहारं भुक्तस्य सतः । क्षमा-उपवासो दण्डो भवति ॥ ५५ ॥
महान्तरायसंभूतौ क्षमणेन प्रतिक्रमः।
भुज्यमानेक्षते शल्ये षष्ठेनाष्टमतो मुखे ॥ ५६ ॥ महान्तरायसंभूतौ-महान्तरायसंभवे अस्थिसंसक्तानसंसेवने सति । क्षमणेन-उपवासेन सह । प्रतिक्रमः--प्रतिक्रमणप्रायश्चित्तं भवति । भुज्यमाने-अद्यमाने ओदनादौ विषयभूते । ईक्षिते-दृष्टे सति। शल्येअस्थि (?) षष्ठेन षष्ठप्रायश्चित्तेन सह प्रतिक्रमः । अष्टमतः अष्टमेन सह प्रतिक्रमः प्रायश्चित्तं भवति । मुखे-आस्ये सति । इह शल्यग्रहणमुपलक्षणार्थ । अतः सार्द्रचर्मरुधिरादावप्येवमेव प्रायश्चित्तं भवति ॥५६॥
आधाकर्मणि सव्याधेनिधेिः सकृदन्यतः । उपवासोऽथ षष्ठं च मासिकं मूलमेव च ॥ ५७ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org