________________
प्रायश्चित्त-चूलिका।
लाप्यश्च । कर्तव्यः-करणीयः पुरुषः । गाणं गणकोऽपि च-गाणं गणिकश्च कर्तव्यः गाणं गणको नाम तस्माद्गणानिर्घाटनीयः । पुनरस्मादपि भूयोऽन्यतोऽपि उद्वासयितव्यः । ततो यदि पश्चात् तापसन्तापचित्तः सन्नेवं प्रणिगदति यथा भगवन् ! मम प्रायश्चित्तं ददतेति। ततश्चातुर्वर्ण्यश्रमणसंघमध्ये तस्य विशुद्धिविधेयेति ॥ ५२ ॥
भाषासमितिः।
अज्ञानाद्याधितो दर्पात् सकृत्कन्दाशनेऽसकृत् । कायोत्सर्गः क्षमा शान्तिः पंचकं मासमूलके ॥ ५३ ।। अज्ञानात्-मोहात् । व्याधितो-व्याधे रोगात् । दत्-ि ~अहंकाराखेतोः ।सकृत्-एकवारं। कन्दाशने-कन्दा आई(द्र)ककंदादयः, इह कन्दग्रहणमुपलक्षणार्थ, आदिशब्दो वात्र लुप्तनिर्दिष्टः, तेन कन्दफलबीजमूलाद्यप्रासुकं संगृहीतं भवति । तत्र कन्दा सूरणपिण्डालुरताल्वादयः, फलानि आम्रप्रमुखबीजपूरकादीनि, बीजानि गोधूममुद्माषराजमाषादीनि, मूलानि सौंभाजनकैरंडमूलादीनि तेषांमशने भक्षणे कृते सति । असकृत्-अनेकवारं च। कायोत्सर्गः-तन्त्सर्गः।क्षमा-क्षमणं ।क्षान्तिः-उपवासः। पंचकंकल्याणकं । मासमूलके-मासः मासिकं, मूलं पुनर्दीक्षा । आगममजानानः अप्रासुकमिति वा । अनवबुद्ध्यमानो यदि कन्दमूलाद्यभ्यवहरति तदा सकृ. त्कायोत्सर्गः प्रायश्चित्तं भवति । असकृदुपवासः । जानन्नपि व्याधिबाधित: सन् परिखादति तदानीं सकृदुपवासः। असकृत्पंचकं लभते । निःशंकः सन् समुत्पाद्य संछिद्य कन्दमूलादि रसायनादिनिमित्तमत्ति तदा सकृन्मा. सिकं । असकृत्साभोगेन मूलं प्रायश्चित्तमवामोति। अथवा ज्ञाने सकृदत्यन्त. स्तोके आलोचना, अन्यत्र कायोत्सर्गः ॥ ५३॥
कुड्याद्यालम्ब्य निष्ठय चतुरङ्गलसंस्थितिम् । त्यक्त्वोक्त्वा क्षमणं ग्लाने भुक्ते षष्ठं तथा परे ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org