SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२४ प्रायश्चित्तसंग्रहे हस्तेन हन्ति पादेन दण्डेनाथ प्रताडयेत् । _एकाद्यनेकधा देयं क्षमणं नृविशेषतः॥४९॥ हस्तेन-करेण । हति--ताडयति । पादेन-चरणेन । दण्डेनलकुटेन । अथ-अथवा । प्रताडयत्-हंति । यदि साधुः कथमपि तदा, एकादि-एकप्रभृति । अनेकधा-अनेकप्रकारं । क्षमणं-उपवासः । देय-दातव्यं । नृविशेषतः-पुरुषविशेषेण ॥४९॥ यश्च प्रोत्साह्य हस्तेन कलहयेत् परस्परं । असंभाष्योऽस्य षष्ठं स्यादाषण्मासं सुपापिनः ॥ ५० ॥ यश्च--योऽपि यतिरूपः । प्रोत्साह्य--प्रचोद्य । हस्तेन-करेण । कलहयेत्-कलहं कारयेत् । परस्परं-अन्योन्यं । सः, असंभाष्यो-नभिलाप्यः । अस्य-एतस्य । षष्ठं-प्रायश्चित्तं । स्यात्-भवेत् । आषण्मासं-षण्मासपर्यन्तं । सुपापिनः-पापिष्ठस्य ॥ ५० ॥ छिन्नापराधभाषायामप्यसंयतबोधने । नृत्यगायेति चालापेऽप्यष्टमं दण्डनं मतम् ॥ ५१ ॥ छिन्नापराधभाषायां--कृतप्रायश्चित्तस्य दोषस्य पुनः परिभाषणे कृते सति । अप्यसंयतबोधने-सुप्तस्यासंयतस्य विरतस्योत्थापनेऽपि । नृत्यगायेति चालापे-नृत्यनटगाय आलापय (?) इति एवमपि आलापे निगदिते । चशब्दात् व (न) तने च गाने च । अष्टमं-त्रयउपवासाः निरन्तराः । दण्डनं-प्रायश्चित्तं । मतं-इष्टम् ॥ ५१ ॥ चतुर्वर्णापराधाभिभाषिणः स्यादवन्दनः । असंभाष्यश्च कर्तव्यः स गाणं गणिकोऽपि च ॥ ५२ ॥ चतुर्वर्णापराधाभिभाषिणः-चतुर्वणः ऋषिवर्णः ऋषिमुनियत्यनगाराः साध्वा श्रावक श्राविका वा तस्यापराधं दोषं अभिभाषते इत्येवं शीलः साधुः । स्यात्-भवेत् । अवन्दनः~अवन्यः । असंभाष्यश्च-अनभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy