SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १२३ भाषासमितिमुन्मुच्य-भाषासयमं उन्मुच्य परिहत्य व्यतिक्रम्य । मौन कलहकारिण:-कलिविधायिनः मुनेः, मौनं वाचंयमत्वं वाक्संयमः प्रायश्चित्तं भवति।क्षमणं च गुरूद्दिष्टमपि स्यात् ] गुरुद्दिष्टमाचार्योद्दिष्टमपि । षट्कर्मदे शिन:- षटकर्मदेशिनो हि प्रायश्चित्तमपि, वाणिज्यविद्योपदेशिनः षड्जी-.. वनिकायवाधाभिः कर्मोपदेशिनो वापि क्षमणं प्रायश्चित्तं भवति ॥४५॥ असंयमजनज्ञातं कलहं विदधाति यः। बहूपवाससंयुक्तं मौनं तस्य वितीर्यते ॥ ४६॥ असंयमजनज्ञातं-मिथ्यादृष्टिलोकावबुद्धं । कलह-कलिं । विद-- धाति-करोति । य:--साधुः । बहूपवाससंयुक्तं-भूरिक्षमणसमन्वितं ।। मौनं-वाचंयमत्वं । तस्य-साधोः । वितीर्यते-दीयते ॥ ४६॥ __ कलहेन परीतापकारिणः मौनसंयुताः । उपवासा मुनेः पंच भवन्ति ऋविशेषतः ॥४७॥ . कलहेन-कलिना कृत्वा । परीतापकारिणः-सन्तापविधायिनः । मौनसंयुता:-वाचंयमत्वोपलक्षिताः । उपवासा:-क्षमणानि । मुनेःसाधोः । पंच-पंचोपवासाः । भवन्ति–सन्ति । नृविशेषतः-पुरुषविशेषात् । मन्दग्लानादिपुरुषविशेषमगवगम्य देयाः ॥ ४७ ॥ जनज्ञातस्य लोचस्य बहुभिः क्षमणैः सह ।। आषण्मासं जघन्येन गुरूद्दिष्टं प्रकर्षतः॥४८॥ जनज्ञातस्य- सकललोकावगतस्य कलहस्य सतः । लोचस्य-वालो-- पाटस्य भवति । बहुभिः-भूरिभिः । क्षमणै-रुपवासैः । सार्ध-समं । आषण्मासं जघन्येन-जघन्येन सर्वतः स्तोककालेन आषण्मासं एकोपवासादिषण्मासपर्यन्तं प्रायश्चित्तं । गुरूद्दिष्टं प्रकर्षतः---प्रकर्षणोत्कर्षण गुरूद्दिष्टमाचार्योपदिष्टं भवति ॥ ४८ ॥ १ अस्य स्थाने पुस्तके लोचश्चेति पाठः, किन्तु मूले लोचस्येति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy