________________
१२२
प्रायश्चित्तसंग्रहे
अपि च संयतिकानां च । जलकेलिमहासृणिः--जलकेलिः जलकीडा तस्या विनिवारणे महासृणिश्च तस्य प्रायश्चित्तं नाम ॥ ४१ ॥
युग्यादिगमने शुद्धिं द्विगुणां पथिशुद्धितः।
ज्ञात्वा नृजातं वाचार्यो दद्यात्तदोषघातिनीम् ॥ ४३॥ ___ युग्यादिगमने-युग्ययानादिप्रयाणे । अस्य [वि] शुद्धि-प्रायश्चित्तं । द्विगुणां-द्विः (?)। पथिशुद्धितः--पथः शुद्धिः पथिशुद्धिस्तस्याः पथिशुद्धितः मार्गगमनप्रायश्चित्तात् सकाशात् । ज्ञात्वा--अवबुद्धय ।नृजातंपुरुषजातसामान्यं मन्दग्लानादिकं । आचार्यो-गणेन्द्रः । दद्यात्प्रयच्छेत् । तद्दोषघातिनी-तस्य पुरुषस्य दोषघातिनी, अथवा स चासो दोषश्च तद्दोषस्तस्य घातिनी शीलां विनाशिकां शुद्धिं । वम॑गमने यत्प्रा. यश्चित्तं प्राविनिश्चित्तं तदेव दोलिकादिगमने कथंचित्सम्पन्ने सति द्विगुणं भवतीति योज्यम् ॥ ४३॥
सप्तपादेषु निष्पिच्छः कायोत्सर्गाद्विशुद्ध्यति ।
गव्यूतिगमने शुद्धिमुपवासं समश्नुते ॥४४॥ सप्तपादेषु-सप्तसु पादेषु गमने सति । निष्पिच्छः-प्रतिलेखविरहितः साधुः । कायोत्सर्गात्-तनूत्सर्गात्प्रायश्चित्तात् । विशुद्धयति-निर्दोषो भवति । गव्यूतिगमने--क्रोशमात्रप्रयाणे सति निष्पिच्छः । शुद्धिं प्रायश्चित्तं । उपवास-क्षमणं । समश्नुते--प्राप्नोति । द्विगुणमित्यधिकाराकोशादनन्तरं प्रतिक्रोशं द्विगुणां द्विगुणां शुद्धिं समश्नुते इति व्याख्यातव्यम् ॥ ४४॥
ईर्यासमितिः।
भाषासमितिमुन्मुच्य मौनं कलहकारिणः । क्षमणं च गुरूद्दिष्टमपि षदकर्मदेशिनः ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org