________________
प्रायश्चित्त-चूलिका।
११९ व्यायामगमने-पादश्रमकरणप्रयाणे सति । अमार्गे---उत्पथे । प्रासुके--प्रगता असवः प्राणा यस्मादसौ प्रासुकः विजन्तुकस्तस्मिन् । अप्रासुके-सजन्तुके च । यतेः-~साधोः । कायोत्सर्गोपचासौ-कायो। त्सर्गः उपवासश्च एतौ द्वावपि । स्तः-भवतः । अपूर्ते (%)-असंभृते । क्रोशे-गव्यूतौ दिदण्डसहस्रप्रमाणेऽध्वनि । यथाक्रम-यथासंख्यं । प्रासुकमार्गेण व्यायामनिमित्तं गतस्य कायोत्सर्गः । अप्रासुकमार्गेणोपवास इति ॥ ३४॥
घननीहारतापेषु क्रोशैर्वन्हिस्वरग्रहैः ।
क्षमणं प्रासुके मार्गे द्विचतुःषड्भिरन्यथा ॥ ३५ ॥ घननीहारतापेषु-धनः घनकालः वर्षाकालः, नीहारः नीहारकालः शीतकालः, तापः तापकालः उष्णसमयः तेषु । क्रोशैः-गव्यूतिभिः । वन्हिस्वरग्रहै:--वन्हयः त्रयः, स्वराः षट्, ग्रहा नव तैः कृत्वा गमने सति । क्षमणं--उपवासः । प्रासुके मार्गे-विजन्तुके वर्त्मनि । द्विचतुःषड्भिरन्यथा--अन्यथाऽन्येन प्रकारेण अप्रासुके मार्गे द्विचतुःषभिः क्रोशैः क्षमणं । द्वाभ्यां वर्षाकाले अप्रासुके मार्गे गमने सति उपवास: प्रायश्चित्तं भवति । चतुः क्रोशेषु शीतकालेऽप्रासुकमार्गे गमने क्षमणं प्रायश्चित्तं भवतीति यथाक्रमं योज्यं । एतदिवसे उत्तरत्र रात्रिग्रहणात् ॥ ३५ ॥
दशमादृष्टमाच्छुद्धो रात्रिगामी सजन्तुके। विजन्तौ च त्रिभिः क्रोशैर्मार्गे प्रावृषि संयतः ॥ ३६॥ दशमात्-चतुर्मिनिरन्तरोपवासैः । अष्टमात्-त्रिभिर्निरन्तरोपवासैः । शुद्धो--विशुद्धो भवति । रात्रिगामी-रात्रौ गच्छतीत्येवंशीलः रात्रिगामी निशाप्रयासी। सजन्तु के--सजीवे मार्गे । विजन्तौ च प्रासुकेऽपि । त्रिभिः क्रोशैः--त्रिभिर्गव्यूतिभिः । मार्गे-वर्त्मनि । प्रावृषि-प्रावृट्काले । संयतः-साधुः । प्रावटकाले कथंचिद्रात्रिगमने सति अप्रासुकमार्गेण दशमं प्रायश्चित्तं भवति। त्रिभिः क्रोशैः प्रासुके चाष्ठमात् संशुद्धयति ॥ ३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org