SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११८ प्रायश्चित्तसंग्रहे उपधेः स्थापनाल्लोभादैन्यादानप्ररूढितः। संग्रहात क्षमणं षष्ठमष्टमं मासमूलके ॥ ३२ ॥ उपधेः--गृहस्थोपकरणस्य । स्थापनात्-प्रणिधानात् । लोमात्मूर्छायाः । दैन्यात्-कार्पण्यात् । दानप्ररू ढतः -रूढिप्रदानात् प्रसिद्धदानग्रहणात् । संग्रहात्-~-सर्वपरिग्रहग्रहणाद्धेतोः । क्षमण-मुपवासः । षष्ठं-षष्ठप्रायश्चित्तं । अष्टमं-~-अष्टमदण्डनं ।मासमूलके-द्वे, मास: मासिकं, मूलं पुनर्दीक्षा । गृहस्थमात्रास्थापने क्षमणं प्रायश्चित्तं सोपस्थानं । सुवर्णहिरण्यादिपरिग्रहलोभे च सति षष्ठं । याचित्वा सुवर्णहिरण्यादिपरिग्रहादानेष्टमं । ग्रहणसंक्रान्तिव्यतिपातादिषु प्रसिद्धेषु हिरण्यसुवर्णादिसंग्रहणे सति मासिकं । हिरण्यसुवर्णमणिमुक्ताफलादिसाभोगपरिग्रहसमादाने मूलं प्राय: श्चित्तं भवति ॥ ३२॥ पंचमम् । रात्रौ ग्लानेन भुक्ते स्यादेकस्मिँश्च चतुर्विधे। उपवासः प्रदातव्यः षष्ठमेव यथाक्रमम् ॥ ३३ ॥ रात्रौ-निशि । ग्लानेन-व्याधिविशेषपरिश्रमविविधोपवासादिपरिपी. डितेन सता कर्मोदयवशात् प्राणसंकटे । भुक्ते-ऽभ्यवहृते सति । स्यात्भवेत् । एकस्मिन्-भुक्ते एकतराहारे भुक्ते, सति । चतुर्विधे चतुष्प्रकारे अशने पाने खाये स्वाये च । उपवास:--क्षमणं । प्रदातव्यः-प्रदेयः । षष्ठमेव षष्ठं । यथाक्रम--यथासंख्यं । एकस्मिन्नाहारे क्षमणं । चतुर्विधाहारे षष्ठमिति प्रयोज्यम् ॥ ३३॥ षष्टम् । व्यायामगमनेऽमार्गे प्रासुकेऽप्रासुके यतेः । कायोत्सर्गोपवासौ स्तोऽपूर्णेकोशे यथाक्रमम् ॥ ३४ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy