________________
प्रायश्चित्त-चूलिका।
१९७
दृष्ट्वा योषामुखाद्यङ्ग यस्य कामः प्रकुप्यति ।
आलोचना तनूत्सर्गस्तस्य च्छेदो भवेदयम् ॥ ३० ॥ दृष्ट्वा-अवलोक्य। योषामुखाद्यङ्गं-स्त्रीवदनायवयवं । यस्य-कस्यचिन्मन्दभाग्यस्य । कामो--ऽभिलाषः । प्रकुप्यति--उत्कोचमायाति । आलोचना-गुरुभ्यः स्वदोषविनिवेदनं । तनूत्सर्ग:-कायोत्सर्गः । तस्यप्रागुक्तस्य साधोः । छेदः-प्रायश्चित्तं । भवेत् स्यात् । अयं-एषः ॥ ३० ॥
स्त्रीगुह्यालोकिनो वृष्यरससंसेविनो भवेत् । रसानां हि परित्यागः स्वाध्यायोऽचित्तरोधिनः ॥ ३१ ॥ स्त्रीगुह्यालोकिनः-स्त्रीणां गुह्यादेः योनिप्रभृत्यवयवस्यालोकनशीलस्य लिंगिनः । वृष्यरससंसेविनः वृषाणीन्द्रियाणि तेभ्यो हिता बलोपचयविधायिनो वृष्यास्ते च ते रसाश्च वृष्यरसास्तान् संसेवते इत्येवं शीलः वृष्यरससंसेवी तस्य च । भवेत् -स्यात् । रसानां-दधिदुग्धशाल्योदनघृतपूरादीनामिन्द्रियबलवर्धनानां । हि-स्फुटं । परित्यागः-परिवर्जनं प्रायश्चित्तं भवति । स्वाध्यायोऽचित्तरोधिनः-स्वाध्यायोऽपराजितादिपरममंत्रपदजपः परमागमाध्ययनं च सोऽयमनुचरतः स्वाध्यायो विशुद्धध्यानाधारभूतः प्रायश्चित्तं भवति प्रज्ञातिशयाध्यवसानविशुद्धिहेतुत्वात् । उक्तं चमनः सदाधिगमे प्रसक्तं वाक्यार्थयोगे नयने पदेषु । श्रुतिः श्रुतौ निश्चलविग्रहस्य ध्यानेऽपि चैकाम्यमिहापि तुल्यम् ॥१॥ इत्यादि ।
अचित्तरोधिनो मनोरोधविरहितस्य सतः साधोः तत्वाभ्यास एव प्रायश्चित्तं भवति ॥ ३१॥
चतुर्थम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org