________________
१२०
प्रायश्चित्तसंग्रहे
summmniwwwwwwwwwwwww..........
हिमे क्रोशचतुष्केणाप्यष्टमं षष्ठमीर्यते। .
ग्रीष्मे क्रोशेषु षट्सु स्यात् षष्ठमन्यत्र च क्षमा ॥ ३७ ॥ हिमे-हिमकाले । क्रोशचतुष्केणापि--गव्यूतिचतुष्टयेन गत्वा । अष्टमं--अष्टमप्रायश्चित्तं भवति । प्रासुके तु षष्ठं स्यात् । ग्रीष्मे----उष्णकाले । कोशेषु षट्सु-षट्सु गव्यूतिषु । स्यात्-भवेत् । षष्ठं-दावुपवासौ निरन्तरौ । अन्यत्र च-प्रासुकमार्गेऽपि । क्षमा-क्षमणमुपवासः । उष्णकाल षट्सु क्रोशेष रात्रिगमने सति अप्रासुकमार्गेण षष्ठं प्रायश्चित्तं । प्रासुकमार्गे पुनः क्षमणं भवति ॥ ३७॥
सप्रतिक्रमणं मूलं तावन्ति क्षमणानि च ।
स्याल्लघुः प्रथमे पक्षे मध्येन्त्ये योगभंजने ॥ ३८॥ सप्रतिक्रमणं--प्रतिक्रमणया सहितं । मूलं--पंचकल्याणं । तावन्तितत्प्रमाणानि । क्षमणानि च--उपवासाश्च । स्यात्--भवेत् । लघुः-- लघुमासः । प्रथमे पक्षे-आये पंचदशरात्रे । मध्ये-मध्यकाले । अन्त्ये-- अन्ते भवोऽन्त्यस्तस्मिन्नन्त्ये चरमे पक्षे । योगभंजने-योगभंगे। वर्षासु राविद्धर ( ? ) देशभंगादिकारणाद्योगे भग्ने सति प्रथमपक्ष एव सोपस्थानं मासिकं प्रायश्चित्तं भवति । प्रथमपक्षार्धे यावन्तो दिवसा तिष्ठन्ति तावन्त उपवासाः प्रायश्चित्तं । ततोऽन्त्ये काले पक्षे शेषे भिन्ने सति लघुमासः प्रायश्चित्तं भवति ॥ ३८ ॥
जानुदन्ने तनूत्सर्गः क्षमणं चतुरंगुले ।। द्विगुणा द्विगुणास्तस्मादुपवासाः स्युरम्भसि ॥ ३९ ॥ जानुदघ्न-जानुमात्रे । अंभसि-। तनूत्सर्ग:-कायोत्सर्ग । क्षमणंउपवासः प्रायश्चित्तं तस्य । चतुरंगुले--चतुरंगुलप्रमाणे सति । द्विगुणा द्विगुणास्तस्मात्-ततः । उपवासाः-क्षमणानि । स्यु:-भवेयुः । अंभसि पानीये मध्येन गतस्य सतः कायोत्सर्गः प्रायश्चित्तं भवति । ततश्चतुरंगुले
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org