________________
प्रायश्चित्तसंग्रहे—
एवंविधि समुल्लंघ्य यः प्रवर्तेत मूढधीः । बलवन्तं समासृत्य यो वादत्ते प्रदोषतः ॥ २१ ॥
११४
-
एवंविधिं - एवंभूतां व्यवस्थां । समुल्लंघ्य — अतिक्रम्य । यः कश्चित् साधुः । प्रवर्तेत - प्रवर्तते चेष्टते । मूढधीः मूढबुद्धिः । बलवन्तं समासृत्य यो वादत्ते वा अथवा, यो यतिः, बलवन्तं बलिनं नरेन्द्रादिकं, समासृत्य उपपद्य, आदत्ते गृह्णाति उपकरणं । प्रदोषतः - प्रदोषात् प्रदेवात्, तस्य वक्ष्यमाणो दण्डः ॥ २१ ॥
सर्वस्वहरणं तस्य षण्मासः क्षमणं भवेत् । योऽन्यथापि तमादत्ते तस्य तन्मौनसंयुतं ॥ २२
-
तस्य- - तस्यान्यायविधायिनः । सर्वस्वरहणं – निरवशेषपुस्तकाद्युपकरणापहारो दण्डः । षण्मासः क्षमणं -- षण्मासान् यावदेकान्तरोपवासश्च । भवेत् स्यात् । योऽन्यथापि तमादत्ते-यः साधुः, अन्यथापि अन्येनापि केनचित्प्रकारान्तरेण, तमुपधिं, आदत्ते गृह्णाति । तस्य - साधोः | तत् - तदेव प्रागभिहितं षण्मासक्षमणं प्रायश्चित्तं भवति । मौनसंयुतं -- मौनेन समन्वितम् ॥ २२ ॥
तृतीयं व्रतम् ।
―
क्रियात्रये कृते दृष्टे दुःस्वप्ने रजनीमुखे ।
सोपस्थानं चतुर्थं नित्यमाभुक्ती प्रतिक्रमः ॥ २३ ॥ क्रियात्रये - स्वाध्यायनियमवंदना करणत्रितये । कृते सति, विहिते सति । दृष्टे - विलोकिते । दुःखमेरेतयुतौ सतीत्यर्थः । रजनीमुखेप्रदोषसमये । सोपस्थानं चतुर्थी - सोपस्थानं सप्रतिक्रमणं, चतुर्थमुपवासः । नियमाभुक्ती नियमो लघुप्रतिक्रमणं, अभुक्तिरुपवासः । प्रतिक्रमः - अयं प्रतिक्रमो नियम इति ग्राह्यः । रात्रेः प्रथमभागे स्वाध्यायाद्यन्यतरक्रियां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org