________________
प्रायश्चित्त-चूलिका।
११३
सकृत् -एकवारं । शून्ये-विजने । समक्षं-सपक्षाणां प्रत्यक्षं । अनाभोगे-मिथ्यादृष्टयादीनामपरिपश्यतां विशेषवतः पदार्थस्य । अदत्तसंग्रह-अवितीर्णग्रहणे सति । कायोत्सर्गोपवासाः-कायोत्सर्गा उपवासाश्च । स्युः-भवेयुः । प्राग्वत्-पूर्ववत् एकोत्तरवृद्ध्या इत्यर्थः। चशब्दात्प्रतिक्रमणपुरस्सराः कायोत्सर्गोपवासाः सन्ति । शून्येऽदत्तादाने एकः कायोत्सर्ग उपवासश्च सप्रतिक्रमणः । प्रत्यक्षमदत्तादाने सति द्वौ कायोत्सर्गों द्वावुपवासौ सप्रतिक्रमणौ सुवर्णहिरण्यादौ तु मूलगुणप्रायश्चित्तं भवति । मूलगुणोऽसकृत्-असकृदनेकवारं अदत्तादाने मूलगुणः पंचककल्याणं स्यात् ॥ १८॥
आचार्यस्योपधेरा विनेयास्तान् विना पुनः । सधर्माणोऽथ गच्छश्च शेषसंघोऽपि च क्रमात् ॥ १९ ॥
आचार्यस्य--गणिनः । उपधेः--पुस्तकाद्युपकरणस्य । अर्हा:-- योग्याः । विनयाः--तच्छिष्याः । तान् विना पुनः--शिष्यैर्विना तु। सध. मणिः---गुरुभ्रातरः अर्हाः । अथ--अनन्तरं सधर्मणो विना । गच्छ:स्वगणोऽपि त्रिपुरुषान्वयोऽपि अर्हः । गच्छं विना, शेषसंघोऽपि च---शेषो. ऽवशिष्टः संघश्च सप्तपुरुषान्वयोऽपि योग्यः । कमात्--क्रमेण यथान्यायं यथाक्रमं परिपाट्या ॥ १९॥
सर्वे स्वामिवितीर्णस्य योग्यो ज्ञानोपधेरपि ।
स्वामिना वा वितीर्यत यस्मै सोऽपि तमर्हति ॥२०॥ सर्वे-निरवशेषाः साधवः शिष्यादयोऽन्यसम्बन्धिनोऽपि । स्वामिवितीर्णस्य-उपकरणस्य, प्रभुणा प्रवितीर्णस्योपकरणस्य अर्हा भवन्ति । योग्यो ज्ञानोपधेरपि-ज्ञानोपधेः पुस्तकस्य तु योग्यः य एव योग्यो ज्ञानी स एवाहः । स्वामिना वा वितीर्येत यस्मै-वा अथवा, स्वामिना पुस्तकपतिना, यस्मै साधवे, वितीर्यत दीयते । सोऽपि- स च । तं-ज्ञानोपधिं । अर्हति-भजति गृह्णाति ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org