________________
११२
प्रायश्चित्तसंग्रहे
RA
बादे एकः कायोत्सर्ग उपवासश्च प्रतिक्रमणः । परोक्षे मृषावादे दो कायोत्सर्गोपवासौ च प्रतिक्रमणे । उभयस्मिन् मृषावादे त्रयः कायोत्सर्गा उपबासाश्च प्रतिक्रमणः (णाः)। त्रिधामृषावादे चत्वारः कायोत्सर्गाः उपवासाश्च प्रतिक्रमणपुरस्सरा भवन्ति एकबारम् ॥ १५॥
असकृन्मासिकं साधोरसदोषाभिभाषिणः ।
कषायादभियुक्तस्य परैर्वा द्विगुणादि तत् ॥ १६ ॥ असकृन्मासिकं--अन्त इति वर्तते तेन असकृदनेकवारमनृते सति मासिकं पंचकल्याणं प्रायश्चित्तं भवति । साधोरसदोषाभिभाषिणः-- साधार्यतेः संबन्धिनः, असतोऽविद्यमानस्य, दोषस्यापराधस्य, यः कश्चिन्मुनिरभिभाषणशीलस्तस्य । कषायात्--क्रोधमानमायालोभैर्हेतुभूतैः। अभियुक्तस्य परैर्वा--परैरन्यैर्वा समीपस्थितैः, अभियुक्तस्य प्रेरितस्य सतः । द्विगुणादि तत्-पूर्वोक्तं प्रायश्चित्तं कायोत्सर्गादिमासिकपर्यन्तं द्विगुणादि भवति द्विगुणं त्रिगुणं चतुर्गुणं पंचगुणं अधिकगुणं च वापि देयम् ॥ १६ ॥
नीचः पैशून्ययुष्टस्य गच्छाद्देशाबहिष्कृतिः
तच्छुत्वा मन्यमानोऽपि दोषपादांशमश्नुते ॥ १७॥ नीच:--पृथग्भूतस्य निकृष्टस्य । पैशून्ययुष्टस्य--पिशुनो दुर्जनः तस्य भावः पैशून्यं तेन युष्टस्य सेवितस्योपहतस्य सतः। गच्छात्---गणात् । देशात्-विषयाच्च । बहिष्कृतिः-बहिष्करणमुद्वासनं प्रायश्चित्तं भवति । तच्छ्रुत्वा-तत्साधोः सम्बन्धि पैशुन्यं श्रुत्वा आकर्ण्य । मन्यमानोऽपिमन्धानश्च मुनिः । दोषपादांशं-तद्दोषचतुर्भागं । अनुते-लभते ॥ १७॥
द्वितीयं व्रतम्
सकृच्छून्ये समक्षं चानाभोगेऽदत्तसंग्रहे । कायोत्सर्गोपवासाः स्युः प्राग्वन्मूलगुणोऽसकृत् ॥१८॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org