SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १११ संपन्ने षष्ठायन्ता अष्टमासा एकान्तरोपवासेन प्रायश्चित्तं भवति । क्षत्रियघाते चत्वारो मासाः । वैश्यपाते द्वौ मासौ । शूद्रघाते मासः । चतुष्पदविधाते सत्यर्धमासो भवति ॥ १३ ॥ तृणमांसात्पतत्सर्पपरिसर्पजलौकसाम् । चतुर्दशनवाद्यन्तक्षमणानि वधे छिदा ॥ १४ ॥ तृणमांसात्पतत्सर्पपरिसर्पजलौकसां-तृणात् तृणचरः, मांसात्मांसाशी, पतत् पक्षी, सर्पो विषधरः, परिसर्पः गोधेराविः, जलौकसो जलचरास्तेषां घाते सति । चतुर्दशनवाद्यन्तक्षमणानि-चतुर्दशादीनि नवान्तानि क्षमणानि उपवासाः । वधे-घाते । छिदा-छेदः प्रायश्चित्तं भवति । तृणचरस्य. मृगशश करोधादेविधाते चतुर्दशोपवासा भवन्ति । मांसाशिनः सिंहव्याघ्रचित्र मादेविघाते त्रयोदश उपवासाः । तित्तिरिमयूरकुर्कटपारापतादिपक्षिविशेषविधाते द्वादशोपवासाः । सर्पगौनसादौ सर्पजातिव्यापादने एकादशोपवासाः । गोधेरककृकलासादिपरिसर्पविनाशे दशोपवासाः । मकरशिशुमारमत्स्य कच्छपादीनां विनाशने नवोपवासाः सन्ति ॥ १४ ॥ प्रथमं व्रतम् प्रत्यक्षे च परोक्षे च द्वयेऽपि च विधानृते । कायोत्सर्गोपवासाः स्युः सकृदेकैकवर्धनात् ॥ १५ ॥ प्रत्यक्षे च–व्यक्तं । परोक्षे-असमक्षं च । तद्वयेऽपि-प्रत्यक्षे परोक्षे च। त्रिधा--मनसा, वचसा, कायेन च। अनुते-असत्यभाषणे कृते सति । कायोत्सर्गोपवासाः--कायोत्सर्गा उपवासाश्च प्रायश्चित्तं । स्युः--भवेयुः । सकृत्---एकवारं । एकैकवर्धनात्--एकोत्तरवृद्धया। च शब्दोऽनुकृष्टे समुच्चयार्थः । तेन सप्रतिक्रमणाः कायोत्सर्गापवासाः सन्ति । प्रत्यक्षमृषा १ द्विरुक्तोयं शब्दः पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy