SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११० प्रायश्चित्तसंग्रह षष्ठेन पारणा षष्ठेन षष्ठेन पारण। यतं भवति । श्राव भवेत् । षष्ठं-षष्ठोपवासः । ऋषिहत्यायां सत्यां द्वादशमासा यावत् षष्ठेन षष्ठेन कृत्वा पारणं प्रायश्चित्तं भवति । अर्धाधहानियुक्- अर्धाधहानियुतं ततस्तदेव षष्ठमर्धिहानियुक्तं भवति । श्रावकस्य घाते कृते सति षण्मासाः षष्ठेन षष्ठेन पारणं । बालस्य घाते सति त्रयो मासाः षष्ठेन षष्ठेन पारणं । स्त्रीघाते सा? मासः षष्ठेन षष्ठेन पारणं । गोधाते त्रयोविंशतिदिवसाः षष्ठेन षष्ठेन पारणाप्रायश्चित्तं भवति ॥ ११ ॥ पाषंडिनां च तद्भक्ततधोनीनां विधातने । आषण्मासं भवेत्षष्ठं तदर्धार्ध ततः परम् ॥१२॥ पाषंडिनां--अन्यलिंगिनां भौतिकभिक्षुपरिबाटकापालिकादीनां । तद्भक्ततधोनीनां तेषां पाषण्डिनां ये भक्ता उपसेविनः माहेश्वरादयस्तेषां, तयोनीनां माहेश्वरादीनां योनीनां योनिभूतानां स्वजनानामित्यर्थः तेषां च । घातेने सति । आषण्मासं भवेत् षष्ठं--पाषण्डिघाते सति आषण्मासं यावत्, षष्ठं षष्ठप्रायश्चित्तं भवति । तदर्धार्ध ततः परं--तस्य षण्मासघष्ठस्य यथागममधि, ततः परं तदनन्तरं भवति । तद्भावधे त्रयो मासाः षष्ठप्रायश्चित्तं भवति । (तयोनिवधे सा| मासः षषप्रायश्चित्तं भवति )॥ १२ ॥ ब्राम्हणक्षत्रविदछूद्रचतुष्पदविघातिनः। एकान्तराष्टमासाः स्युः षष्ठाद्यन्ताश्च पूर्ववत् ॥ १३ ॥ ब्राह्मणक्षत्रविद्रचतुष्पदविघातिनः-ब्राह्मणाः लौकिका विप्राः, क्षत्राः क्षत्रियाः, विशो वैश्याः, शूद्रास्तत्प्रेषणकारिणः तक्षाभीरकुम्भकारादयः चतुष्पदास्तान विहन्तीत्येवं शीलस्तद्विघाती । अथवा तद्विघातोऽस्यास्तीति तद्विघाती तस्य ब्राह्मणक्षत्रविट्छूद्रचतुष्पदविधातिनः साधोः । एकान्तराष्टमासा:---एकान्तरेण एकान्तरोपवासेन, अष्टमासाः अष्टौ त्रिंशद्रात्राः । स्युः--भवेयुः । षष्ठायन्ताः---षष्ठाद्याः षष्ठान्ताश्च आदावन्ते च षष्ठं भवतीत्ययमर्थः। पूर्ववत्-अर्धाहानितः । लौकिकब्राह्मणघाते कथंचि Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy