SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। विधाय सुप्तस्य दुःस्वप्ने सति सप्रतिक्रमणोपवासः प्रायश्चित्तं भवति । क्रियाद्वयं विधाय सुप्तस्य दुःस्वने सति नियमोपवासौ भवतः । क्रियात्रयमपि कृत्वा प्रसुप्तस्य सतः दुःस्वप्ने सति नियमः प्रायश्चित्तं भवतीति यथाक्रमं योज्यम् ॥ २३ ॥ नियमक्षमणे स्यातामुपवासप्रतिक्रमौ । रजन्या विरहे तु स्तः क्रमात् षष्ठप्रतिक्रमौ ॥ २४॥ नियमक्षमणे-नियमोपवासौ । स्यातां-भवेतां । उपवासप्रतिक्रमौउपवासप्रतिक्रमणौ । रजन्या विरहे तु-रात्रेः पश्चिमप्रहरे पुनः । स्तःभवतः । कमात्--क्रमेण यथासंख्यं । षष्ठप्रतिक्रमौ---षष्ठप्रतिक्रमणौ । रात्रेश्वरमप्रहरे एकां क्रियां विधाय संसुप्तस्य दुःस्वप्ने सति नियमोपवासौ प्रायश्चित्तं । क्रियाद्वयं विधाय शयितस्य दुःस्वप्ने सति उपवासेन सह प्रतिक्रमणो भवति । (किंयात्रयं विधाय शयितस्य दुःस्वप्ने सति सप्रतिक्रमणं षष्ठं प्रायश्चित्तं भवति )॥ २४ ॥ मद्यमांसमधु स्वप्ने मैथुनं वा निषेवते । उपवासोऽस्य दातव्यः सोपस्थानश्च चेद्बहु ॥ २५ ॥ मद्यमांसमधु-मद्यं सुरा, मांसं पिशितं, मधु माक्षिकं । स्वप्ने—निद्रायां । मैथुनं वा–अब्रह्म वा । निषेवते-यद्यनुभवति । तदानीं, उपवासोऽस्य दातव्यः-उपवासः प्रायश्चित्तं, अस्य एतस्य साधोः, दातव्यो देयः । सोपस्थानश्च--प्रतिक्रमणायोपलक्षितो भवति । चेद्बहु-यदि मद्यमांसमैथुनादि बहु निषेवितं भवति ॥ २५ ॥ तरुण्या तरुणः कुर्यात्कथालापं सकृयदि । - उपवासोऽस्य दातव्योऽसकृत् षण्मासपश्चिमः ॥२६॥ १ नायं कंसस्थः पाठः पुस्तके अर्थानुसारित्वात् स्वबुद्धथा परिकल्प्य संयोजितः। पदयतु छेदपिण्डस्य ५७-५८ गाथाद्वयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy