________________
श्रवण बेलगोल नगर में के शिलालेख २८१ अदियम-पृथुशौर्याय॑मराहुश्चेङ्गिरि-गिरीन्द्र-हति-पवि
दण्डः तलवनपुरलक्ष्मी पुनरहरजयमिव रिपोस्स विष्णु-नृपः
॥२२॥ अपि च । चक्रिप्रेषित-मालवेश्वरजगद्देवादिसैन्यानवं
घूर्नन्त सहसापिवत्करतलेनाहत्य मृत्यु-प्रभुः । प्राक पश्चादसिनाग्रहीदिह महीं तत्कृष्णवेण्यावधि
श्रीविष्णुर्भुजदण्डचूर्णितनितान्तोतुङ्गतुङ्गाचलः ॥ २३ ॥ अपि च ।। इरुङ्गोल-क्षोणी-पति-मृगमृगारातिरतुल:
कदम्ब-क्षोणीश-क्षितिरुह-कुलच्छेद-परशुः । निज-व्यापारक-प्रकटितलसच्चौर्यमहिमा
स विष्णुः पृथ्वीशो न भवति वचोगोचरगुणः ॥२४॥ साक्षालक्ष्मी-विपदपगमे विश्वलोकस्य नाना
लक्ष्मीदेवी विशदयशसा दिग्धदिकचक्रभित्तिः । दृप्यद्वैरि-क्षितिप-दितिजत्रात-विध्वस-विष्णोः विष्णोस्तस्य प्रणय-वसुधासीसुधानिर्मिताङ्गी ॥ २५ ॥ ब्रह्माण्ड-भाण्ड-भरितामलकीर्ति-लक्ष्मीकान्तस्तयोरजनि सूनुरजातशत्रुः । पृथ्वीश-पाण्डु-पृथयोरिव पुष्पचापो
दैत्य-द्विषत् कमलयोरिवनारसिंहः ।। २६ ।। अपि च ॥ गर्ब बर्बर मुञ्च काञ्चन-चयं चालाशु राशीकुरु
क्षमं भिक्षय चेर चीवरमुखा दूरेण विज्ञापय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org