________________
२७८ श्रवण बेल्गोल नगर में के शिलालेख
१३८ (३४८) भण्डारिबस्ति में पश्चिम की ओर
(शक सं० १०८१) श्रीमत्परम-गम्भीर-स्याद्वादामोघलाञ्छनं । जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं ।। १ ।। भद्रं भूयाजिनेन्द्राणां शासनायाघनाशिने । कुतीर्थ-ध्वान्त-सङ्घात-प्रभेद-घन-मानवे ।। २ ।। स्वस्तिहोयसलवंशाय यदुमूनाय यद्भवः । चत्र-मौक्तिकसन्तानर पृथ्वीनायक-मण्डनं ।। ३ ।। श्रीधर्माभ्युदयाब्जषण्डतरणिस्सम्यक्तचूड़ामणिौतिश्रीसरणिप्रतापधरणिर्दानार्थि-चिन्तामणिः । वंशे यादवनानि मौक्तिक-मणिर्जातो जगन्मण्डनः
क्षीराब्धाविव कौस्तुभोऽत्रविनयादित्यावनीपालकः ॥४॥ अपि च ॥ श्री कान्ता-कमनीयकलिकमलोल्लासात्सुनित्यादया
दन्धि-क्षितिपान्धकार-हरणाद् भूयर प्रतापान्वयात् । दिकचक्राक्रमणाद्विशत्कुवलय-प्रध्यसनाद्भूतले ख्यातोऽन्वर्थनिजाख्ययैष विनयादित्यावनीपालकः ॥५॥ धात्रा त्रिलोकोदर-सारभूतैरंशैन्मुंदा स्वस्य विनिर्मितेव । तस्य प्रिया केलियनामदेवी मनोज राज्य-प्रकृतिबभूव ॥६॥ तयोरभूभूनुतभूरिकीति पराक्रमाक्रान्तदिगन्तभूमिः । तनूभवः क्षत्रकुलप्रदीप: प्रतापतुङ्गोन्वेरेयङ्गभूपः ।। ७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org