________________
२२२ विन्ध्यगिरि पर्वत पर के शिलालेख
ब्रह्म-क्षत्र-कुलाकराचल-भव-श्री-हार-वल्लीमणिः ब्रह्म-क्षत्र-कुलाग्निचण्डपवनश्चावुण्डराजा जनि ॥ १ ॥ कल्पान्त-जुभिताब्धि-भीषण-बलं पातालमल्लानुजम् जेतुं वज्विलदेवमुद्यतभुजस्यन्द्र-क्षितीन्द्राज्ञया । पत्युश्श्रीजगदेकवीर नृपतंजैत्र-द्विपस्याग्रता धावहन्तिनि यत्र भग्नमहितानीकं मृगानीकवत् ।। २ ।। अस्मिन् दन्तिनि दन्त-वज्र-दलित-विट -कुम्भि-कुम्भोपले वरात्तंस पुरानिषादिनि रिपु-व्यालाशे च त्वयि । स्यात्कोनाम न गोचरप्रतिनृपो मबाण-कृष्णारगप्रासस्येति नालम्बराजसमरे य: श्लाघितः स्वामिना ॥३॥ खात:तार-पयोधिरस्तु परिधिश्चास्तु त्रिकूटर पुरी लङ्कास्तु प्रति नायकोऽस्तु च सुरारातिस्तथापि क्षमे । त जेतुं जगदेकवीर-नृपते त्वत्तेजसेतिक्षणान्नियूंट रणसिङ्ग-पार्थिव-रणे येनोर्जित गर्जितम् ॥४॥ वीरस्यास्य रणेषु भूरिषु वय कण्ठग्रहोत्कण्ठया तप्तास्सम्प्रति लब्ध-निवृतिरसास्त्वत्खड्ग-धाराम्भसा। कल्पान्तरणरङ्गसिङ्ग-विजयी जीवेति नाकाङ्गना गीर्वाणी-कृत-राज-गन्ध-करिणे यस्मै वितीर्णाशिषः॥ ५ ॥ प्राक्रष्टु भुज-विक्रमादभिलषन् गङ्गाधिराज्य श्रियं येनादा चलदक-गङ्गनृपतिर्व्याभिलाषीकृतः । कृत्वा वीर कपाल-रत्न-चषके वीर-द्विषश्शाणितम् पातु कौटुकिनश्च काणप-गणा:
पूर्नाभिलाषीकृताः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org