________________
विन्ध्यगिरि पर्वत पर के शिलालेख २१५ प्रविश्य शास्त्राम्बुधिमेष धीरो जग्राह पूर्व मकलार्थरत्न । परेऽसमर्थास्तदनुप्रवेशादेकैकमेवात्र न सर्वमापुः ॥३॥ सम्पाद्य शिष्यान्स मुनिः प्रसिद्धा
नध्यापयामास कुशाग्रबुद्धीन् । जगत्पवित्रीकरणाय धर्म
प्रवर्तनायाखिल संविदे च ॥ ४० ॥ कृत्वा भक्ति ते गुरोस्सर्वशास्त्रं
नीत्वा वत्स कामधेनुं पयो वा। स्वीकृत्याच्चैस्तत्पिबन्तोऽतिपुष्टाः
शक्तिं स्वेषां ख्यापयामासुरिद्धां ।। ४१ ।। तदीयशिष्येषु विदांवरेषु गुणैरनेकै तमुन्यभिख्यः । रराज शैलेषु समुन्नतेषु स रत्नकूटैरिव मन्दराद्रिः ॥ ४२ ॥ कुलेन शीलेन गुणेन मत्या शास्त्रेण रूपेण च योग्य एषः । विचार्य तं सूरिपदं स नीत्वा कृतक्रिय स्व
गणयाञ्चकार ।। ४३ ।। अथैकदा चिन्तयदित्यनेना: स्थिति समालोक्य निजायुषाऽल्पं । समर्प्य चास्मिन् स्वगणं समर्थे तपश्चरिष्यामि समाधि
योग्य ।। ४४ ॥ विचार्य चैव हृदये गणाग्रणीनिवेदयामास विनेयवान्धवः । मुनिः समाहूय गणाप्रवर्तिनं स्वपुत्रमित्थ श्रुतवृत्त
शालिन ।। ४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org