________________
२१४ विन्ध्यगिरि पर्वत पर के शिलालेख
विबुधजनपालकं कुबुध-मत-हारकं । विजितसकलेन्द्रिय भजत तमलं बुधाः ॥ ३२ ॥ धवल-सरोवर-नगर-जिनास्पदमसदृशमाकृततदुरु
तपोमहः ।। ३३ ।। यत्पादद्वयमेव भूपतिततिश्चक्रे शिरोभूषणं यद्वाक्यामृतमेव कोविदकुलं पीत्वा जिजीवानिशं । यत्कीर्त्या विमलं बभूव भुवनं रत्नाकरणावृतं यद्विद्या विशदीचकार भुवने शास्त्रार्थजातं महत् ॥ ३४ ॥ कृत्वा तपस्तीब्रमनल्पमेधास्सम्पाद्य पुण्यान्यनुपप्लुतानि । तेषां फलस्यानुभवाय दत्तचेता इवाप त्रिदिवंस योगी ॥३५॥ तस्मिन्जातो भूग्नि सिद्धान्तयोगी
प्रोद्यद्वाचा वर्धयन सिद्धशास्त्रं । । शुद्ध व्याग्नि द्वादशात्मा करौघे
यद्वत्पद्मव्यूहमुन्निद्रयन्स्वैः ।। ३६ ।। दुर्वायु क्त शास्त्रजातं विवेकी वाचानेकान्तार्थसम्भूतया यः । इन्द्रोऽशन्या मेघजालोत्थया भूवृद्धा भूभृत्संहति वा
बिभेद ।। ३७ ।। यद्वत्पदाम्बुजनतावनिपालमौलि
रत्नांशवोऽनिशममुं विदधुः नरागं । तद्वन्न वस्तु न वधून च वस्त्रजातं
नो यौव्वनं न च बलं न च भाग्यमिद्ध ॥ ३८।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org