________________
विन्ध्यगिरि पर्वत पर के शिलालेख २०३ कीयाकीर्णत्रिलोक्या मुहुरयति विधुः कार्यमद्याप्यतुल्यः। (तृतीय मुख ) .
यस्योपन्यास-वन्य-द्विप-पटु-घटयोत्पाटिताश्चाटुवाचः पद्मासनात्तमित्रोवलतररुचयोऽप्युत्थितावादिपद्मा: ॥४४॥ चारुश्रीश्चारुकीर्तिः पदनतवसुधाधीश्वरोऽधोश्वरोऽयं गर्व कुर्वन्तमुश्विर-सदसि महावादिनं वादवन्ध्यं । चक्रे दिक्क्रीडदग्रेसरसरसवचा: साधिताशेषसाध्या प्रवेद्यावेद्याद्यविद्याव्यपगमविलसद्विश्वविद्याविनोदः ॥४५॥ बल्लाल-क्षोणिपालं वलित-बलि-बलं वाजिभिव्वे जिताजि रोगावेगाद्गतासु स्थितिमपि स हसोल्लाघतामानिनाय । प्रातीयॆव स्वयं सोऽखिलविदभयसूरेस्तथातारयत्तनिस्सोमाशेष-शास्त्राम्बुनिधिमभयमूरि परं सिंहणार्या
॥४६॥ शिष्टो दुष्टाघ-पिष्टी-करण-निपुण-सूत्रस्य तस्योपदेष्टुशिशष्यः पीयूष-निष्यन्दन-पटु-वचन: पण्डितः खण्डिताघः । सूरिस्सूरो विनेयाम्बुरुहविकसने सर्व दिग्व्यापिधामा श्रीमानस्थात्कृतास्थो बेलुगुलनगरे तत्र धर्माभिवृद्ध्यै ॥४७॥ यस्मिंश्चामुण्डराजा भुजबलिनमिनं गुम्मटं कर्मठाझं भक्तया शक्तया च मुक्तयैजित-सुर-नगरे स्थापयद्भद्रमद्रौ । तत्काल-त्रयोत्थोज्वल-तनु-जिन-बिम्बानि मान्यानि चान्यः कैलासे शीलशाली त्रिभुवन-विलसत्कार्ति-चक्रीव चक्रे ॥४८॥ स्थाने तत्स्थानमन्त्रीज्वलतरमतुलं पण्डितोऽलङ्करोतु
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org