________________
चन्द्रगिरि पर्वत पर के शिलालेख शाब्दीघस्य शिरोमणिः प्रविलसत्तज्ञचूड़ामणि: सैद्धान्तेषुशिरोमणिः प्रशमवद्-ब्रात्तस्य चूड़ामणिः । प्रोद्यत्संयमिनां शिरोमणिरुदञ्चद्भव्यरक्षामणिजर्जीयात्सन्नुतमेघचन्द्रमुनिपस्त्रविद्यचूड़ामणिः ।। २४।। विद्योत्तममेघचन्द्रयमिनः पत्युर्ममासि प्रिया वाग्देवी दिसहावहित्य हृदया तश्यकार्थिनी । कीर्तिर्वारिधि दिककुल्लाचलकुलस्वादात्म [..] प्रष्टुमप्यन्वेष्टु मणिमन्त्रतन्त्रनिचयं सा सम्भ्रमाभ्राम्यति ।।२५।। तकन्यायसुवनवेदिरमलार्हत्सूक्तितन्मौक्तिकः शब्दग्रन्थविशुद्धशङ्खलितस्स्याद्वादस द्विद्रुमः । व्याख्यानार्जितघोषणः प्रविपुलप्रज्ञोद्धवीचीचयो जीयाद्विश्रुतमेघचन्द्र-मुनिपस्त्रविद्य-रत्नाकरः ॥ २६ ॥
श्रीमूल सङ्घकृत-पुस्तक-गच्छ देशी योद्यद्गणाधिपसुतार्किकचक्रवर्ती । सैद्धान्तिकेश्वरशिखामणिमेघचन्द्रस्त्रैविद्यदेव इति सद्विबुधा (:) स्तुवन्ति ॥ २७ ॥ सिद्धान्ते जिनवीरसेन-सहशश्शास्याब्ज-भा-भास्करः षट्तर्केष्वकलङ्कदेवविबुधस्साक्षादयं भूतले । सर्व-व्याकरणे विपश्चिदधिपः श्रीपूज्यपादस्वयं विद्योत्तममेघचन्द्रमुनिपो वादीभपञ्चाननः ॥ २८ ॥ लिखिता मनोहर परनारीसहोदरनप्प गङ्गण्णन लिखित (पश्चिममुख)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org