________________
चन्द्रगिरि पर्वत पर के शिलालेख जीयादसावभयनन्दिमुनिर्जगत्यां ।। १८ ।। येनाशेषपरीषहादिरिपवस्सम्यग्जिता: प्रोद्धताः येनाप्ता दशलक्षणोत्तममहाधमांख्यकल्पद्रुमाः । येनाशेष-भवोपताप-हननं स्वाध्यात्मसंवेदनं प्राप्त स्यादभयादिनन्दिमुनिपस्सोऽयं कृतार्थो भुवि ॥ १६ ॥ तच्छिष्यस्सकलागमायनिपुणो लोकज्ञतासंयुतस्सच्चारित्रविचित्रचारुचरितस्सौजन्य कन्दाकरः । मिथ्यात्वाब्जवनप्रतापहननश्श्रीसोमदेवप्रभु
र्जीयात्सत्सकलेन्दु नाममुनिपः कामाटवीपावकः ।। २० ।। अपिच सकलचन्द्रो विश्वविश्वम्भरेशप्रणुतपदपयोज: कुन्दहारेन्दुरोचिः । त्रिदशगजसुवज्रव्योमसिन्धुप्रकाशप्रतिमविशदकीर्तिग्विधूकर्णपूरः ।। २१ ।। शिष्यस्तस्य दृढ़व्रतश्शमनिधिस्सत्संयमाम्भोनिधिः शीलानां विपुलालयस्समितिभिर्युक्तिस्त्रिगुप्तिश्रितः । नानासद्गुणरत्नरोहणगिरिः प्रोद्यत्तपोजन्मभूः प्रख्यातो भुवि मेघचन्द्र मुनिपस्त्रविद्यचक्राधिपः ॥२२॥ श्रीभूपालकमौलिलालितपदस्तज्ञानलक्ष्मीपतिश्चारित्रोत्करवाहनश्शितयशश्शुभ्रातपत्राश्चितः । त्रैलोक्याद्भुतमन्मधारिविजयस्सद्धर्मचक्राधिपः पृथ्वीसंस्तवतूर्यघोषनिनदस्त्रविद्यचक्रेश्वरः ।। २३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org