________________
चन्द्रगिरि पर्वत पर के शिलालेख त्रैलोक्याद्भुतमन्मथारिविजयस्सद्धर्मचक्राधिपः पृथ्वीसंस्तवतूर्यघोषनिनदस्त्रविद्यचक्रेश्वरः ॥ २५ ।। शाब्दीघस्य शिरोमणिः प्रविलसत्तर्कज्ञचूड़ामणिः सैद्धान्तेद्धशिरोमणिः प्रशमवद् ब्रातस्य चूड़ामणिः। प्रोद्यत्संयमिनां शिरोमणिरुदञ्चद्भव्यरक्षामणिजर्जीयात्सन्नुतमेघचन्द्रमुनिपस्त्रविद्यचूड़ामणिः ।। २६ ॥ विद्योत्तममेघचन्द्रयमिनः पत्युममासि प्रिया वाग्देवी दिसहावहित्थहृदया तश्यकार्थिनी। कीर्तिर्वारिधिदिककुलाचलकुले स्वादात्मा प्रष्टुमप्यन्वेष्टु मणिमन्त्रतन्त्रनिचयं सा सम्भ्रमाभ्राम्यति ॥२७।। तकन्यायसुवज्रवेदिरमलाहत्सूक्तितन्मौक्तिकः शब्दग्रन्थ विशुद्धशङ्खकलितस्स्याद्वादसद्विद्रुमः । व्याख्यानोर्जितघोषणर प्रविपुलप्रज्ञोद्धवीचीचयो जीयाद्विश्रुतमेघचन्द्र-मुनिपस्त्रविद्य-रत्नाकरः ।। २८ ।। श्रीमूलसङ्घकृत-पुस्तक-गच्छ-देशी योद्यद्गणाधिपसुतार्किकचक्रवर्ती । सैद्धान्तिकेश्वरशिखामणिमेघचन्द्र
स्त्रैविद्यदेव इति सद्विबुधा(:) स्तुवन्ति ।। २६ ।। सिद्धान्ते जिन-वीरसेन-सदृशः शास्याब्ज-भा-भास्करः षटतर्केष्वकलङ्कदेवविबुधः साक्षादयं भूतले । सर्व-व्याकरणे विपश्चिदधिपः श्रीपूज्यपादस्स्वयं विद्योत्तममेघचन्द्रमुनिपो वादीभपञ्चाननः ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org