________________
चन्द्रगिरि पर्वत पर के शिलालेख मिथ्यावादिमदान्धसिन्धुरघटासङ्घट्टकण्ठीरवो भव्याम्भोजदिवाकरो विजयतां कन्दर्पदोपहः ॥७॥ तच्छिष्यात्रिशता विवेकनिधयश्शास्त्राब्धिपारङ्गतास्तेषूत्कृष्टतमा द्विसप्ततिमितास्सिद्धान्तशास्त्रार्थकव्याख्याने पटवो विचित्रचरितास्तेषु प्रसिद्धो मुनिः नानानूननयप्रमाणनिपुणो देवेन्द्रसैद्धान्तिकः ॥८॥ अजनि महिपचूड़ारत्नराराजिताजि - विजितमकरकेतूदण्डदाईण्डगर्वः । कुनयनिकरभूधानीकदम्भोलिदण्ड स्सजयतु विबुधेन्द्रो भारतीभालपट्टः ।।६।। तच्छिष्यः कलधौतनन्दिमुनिपस्सैद्धान्तचक्रेश्वरः पारावारपरीतधारिणिकुलव्याप्तोरुकीतॊश्वरः । पञ्चाक्षोन्मदकुम्भिकुम्भदलनप्रोन्मुक्तमुक्ताफल--- प्रांशुप्राञ्चितकेसरी बुधनुतो वाकामिनीवल्लभः ॥१०॥ तत्पुत्रको महेन्द्रादिकीर्तिर्मदनशङ्करः । यस्य वाग्देवता शक्ता श्रौती मालामयूयुजत् ।।११।। तच्छिष्योवीरणन्दीकवि-गमक-महावादि-वाग्मित्वयुक्तो यस्य श्रीनाकसिन्धुत्रिदशपतिगजाकाशसङ्काशकीर्त्ति । गायन्त्युच्चैहि गन्ते त्रिदशयुवतयः प्रीतिरागानुबन्धात् सोऽयं जीयात्प्रमादप्रकरमहिधराभीलदम्भोलिदण्डः ॥१२॥ श्रीगोलाचायनामा समजनि मुनिपश्शुद्धरत्नत्रयात्मा सिद्धात्माद्यर्थ सार्थ-प्रकटनपटु-सिद्धान्त-शास्त्राब्धि-वीची
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org