________________
३४
चन्द्रागार पवत पर
चन्द्रगिरि पर्वत पर के शिलालेख । श्रीमन्नाभेयनाथाद्यमल-जिनवरानीक-सौधोरु-वार्द्धिः प्रध्वस्ताघ-प्रमेय-प्रचय विषय-कैवल्य-बोधोरु-वेदिः । शस्त-स्यात्कार-मुद्रा-शबलित-जनतानन्द-नादोरु-घोषः स्थेयादाचन्द्रतारं परम-सुख-महावीर्य-वीची-निकाय: ॥२॥ श्रीमन्मुनीन्द्रोत्तमरत्नवर्गा श्रीगौतमाचाप्रभविष्णवस्त । तत्राम्बुधा सप्तमहर्द्धि-युक्तास्तत्सन्तता नन्दिगणे बभूव ।।३।। ओपद्मनन्दीत्यनवद्यनामा ह्याचार्यशब्दोत्तरकाण्डकुन्दः द्वितीयमासीदभिधानमुद्यच्चरित्रसजातसुचारणर्द्धिः ॥४॥ अभूदुमास्वातिमुनीश्वरोसावाचार्य-शब्दोत्तरगृपिच्छः । तदन्वये तत्सहसा(शो)ऽस्ति नान्यस्तात्कालिकाशेष
पदार्थ-वेदी ॥५॥ श्रीगृद्धपिञ्च्छ-मुनिपस्य बलाकपिञ्छ
शिष्याऽजनिष्ट भुवनत्रय-वर्ति-कीति: । चारित्रचुञ्चुरखिलावनिपालमौलि
__ माला-शिलीमुख-विराजित-पाद-पद्मः ।।६।। तच्छिष्या गुणनन्दिपण्डितयतिश्चारित्रचक्रेश्वर स्तक्क-व्याकरणादि-शास्त्र-निपुणस्साहित्य-विद्यापतिः । मिथ्यावादिमदान्ध-सिन्धुर-घटासट्टकण्ठोरवो भव्याम्भोज-दिवाकरो विजयतां कन्दर्प-दर्पापहः ॥ ७ ॥ तच्छिष्यास्त्रिशता विवेक-निधयश्शास्त्राब्धिपारङ्गता स्तेपूत्कृष्टतमा द्विसप्रतिमितास्सिद्धान्त-शास्त्रार्थकव्याख्याने पटवो विचित्र-चरितास्तेषु प्रसिद्धोमुनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org