SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते ___ अनधीयानोऽपि विशिष्टजनसंसर्गात्परां व्युत्पत्तिमकानोति ।। ६३॥ टीका-अनधीयानोऽप्यपठन्नपि विद्याः शिष्टजनसेवनात्परां व्युत्पत्तिमवाप्नोति उत्तमं विवेकं लभते जानातीत्यर्थः । तथा च व्यास: विवेकी साधुसङ्गेन जडोऽपि हि प्रजायते। चन्द्रांशुसेवनानूनं यद्वच्च कुमुदाकरः ॥ १ ॥ अथ भूपस्य साधुसंगाद्यद्भवति तदाह__ अन्यैव कौचित्खलु छायोपजलतरूणाम् ॥ ६४ ॥ टीका-उप-समीपे जलस्य, स्थितानां तरूणां काचिदपूर्वा छाया कान्तिर्भवति । तथा च बल्लभदेवः अन्यापि जायते शोभा भूपस्थापि जडात्मनः । साधुसंगाद्धि वृक्षस्य सलिलादूरवर्तिनः ॥ १ ॥ अथ राज्ञां यादृशा उपाध्याया भवन्ति तानाहवंशवृत्तविद्याभिजनविशुद्वा हि राज्ञामुपाध्यायाः॥ ६५ ॥ टीका-राज्ञां भूपतीनां उपाध्याया गुरवः कीदृशा भवन्ति योग्या वंशवृत्तविद्याभिजनशुद्धाः, वंशोद्भवाः स्ववंशे पूर्वेषां ये पाठकाः, क्रमागता इत्यर्थः । तथा वृत्तशब्देन चारित्रमभिधीयते । तथा विद्याधिकाः । तथाभिजनशब्देन कुलीनता प्रोच्यते स्ववंशेऽपि ये जारचौराद्या न भवन्ति ते भूपतीनां विद्याधिगमे योग्याः । तथा नारद: पूर्वेषां पाठका येषां पूर्वजा वृत्तसंयुत्ताः। विद्याकुलीनतायुक्ता नृपाणां गुरवश्च ते ॥१॥ अथ शिष्टानां प्रणतस्य नृपतेर्यद्भवति तदाह१ अनधीयानोऽप्यानवीक्षिकी विशिष्ट० इत्यादि पाठान्तरं मु-पुस्तके । २ काचिदिति पाठः मु-मू-पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy