SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विद्या वृद्धसमुद्देशः। अथ चतसृणामपि विद्यानां प्रयोजनमाह-- आन्वीक्षिक्यध्यात्मविषये, त्रयी वेदयज्ञादिषु, वार्ता कृषिकआदिका, दण्डनीतिः साधुपालनदुष्टनिग्रहः ॥ ६० ॥ टीका—गतार्थमेतत् । तथा च गुरु: आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मों त्रयोस्थितौ। अर्थानौँ तु वार्तायां दण्डनीत्यां नयानयो ॥१॥ अथ राजा यथा विद्यां जानाति तथाह चेतेयते च विद्यावृद्धसेवायाम् ॥ ६१ ॥ वृद्धशब्देन धर्मशास्त्राणि प्रोच्यन्ते, न बलिपलितभाजः । तथा च नारदः न तेन वृद्धो भवति येनास्य पलितं शिरः। यो वै युवाप्यधीयानस्तं देवाः स्थविर विदुः ॥१॥ अथ राजाऽजातविद्यावृद्धसंयोगो यथा भवति तथाह अजातविद्यावृद्धसंयोगो हि राजा निरंकुशो गज इव सद्यो । विनश्यति ॥ ६२ ॥ टीका-यो राजा अजातवृद्धसेवी भवति स निरंकुश उन्मार्गगामी भवति ततोऽकुशरहितो गज इव सद्यः शीघ्रं विनश्यति । तस्माद्राज्ञा विद्या ज्ञातव्या वृद्धाश्च सेवनीयाः । तथा चर्षिपुत्रः यो विद्यां वेत्ति नो राजा वृद्धान्नैवोपसेवते। स शीघ्रं नाशमायाति निरंकुश इव द्विपः ॥१॥ __ अथ राज्ञो विशिष्टसङ्गेन यद्भवति तदाह १ नेदं सूत्रं मुद्रितपुस्तके । २ उत्सहते चेति मु-पुस्तके, यतते इति मूपुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy