SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते यस्तुविद्यामधीत्याथ हितमात्मनि संचयत् । अहितं नाशयेद्विद्यास्ताश्चान्याः क्लेशदा मताः॥१॥ अथ राजविद्यानां संज्ञाः संख्याश्चाहआन्वीक्षिकी त्रयी वार्ता दण्डनीतिरिति चतस्रो राजविद्याः आन्वीक्षिकीमभ्यस्यतो राज्ञो यद्भवति तदाह-- अधीयानो ह्यान्वीक्षिकी कार्याणां बलाबलं हेतुभिर्विचारयति, व्यसनेषु न विषीदति, नाभ्युदयेन विकार्यते, समधिगच्छति प्रज्ञावाक्यवैशारद्यम् ॥ ५६ ॥ टीका-गतार्थमेतत् । त्रयीं पठन् वर्णाचारेष्वतीव प्रगल्भते, जानाति च समस्तामपि धर्माधर्मस्थितिम् ॥ ५७ ॥ टीका-गतार्थमेतत् । तथा युक्तितः प्रवर्तयन् वार्ता सर्वमपि जीवलोकमभिनन्दयति लभते च स्वयं सर्वानपि कामान् ॥ ५८॥ .. टीका-गतार्थमेतत् । तथा यम इवापराधिषु दण्डप्रणयनेन विद्यमाने राज्ञि न प्रजाः स्वमर्यादामतिकामन्ति प्रसीदन्ति च त्रिवर्गफला विभूतयः * ॥ ५९॥ टीका-~-गाथमेतत् । १ कार्याकार्याणामिति मु-मू-पुस्तके । २ प्रज्ञावानित मु-पुस्तके । * अस्मादग्रे " साख्यं योगो लोकायतं चान्वीक्षिकी। बौद्धाहतोः श्रुतेः प्रतिपक्षत्वात् ( नान्वीक्षिकीत्वम् )। प्रकृतिपुरुषज्ञो हि राजा सत्वमवलम्बते । रजः फलं चाफलं च परिहरति । तमोभिर्नाभिभूयते। इत्यपि पाठो मूललिखितपुस्तके मुद्रितपुस्तके च वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy