SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः । ६३ शिष्टानां नीचैराचरन्नरपतिरिहलोके स्वर्गे च महीयते॥६६॥ टीका---(यो नरपंतिः शिष्टानां नीचैराचरन् इह लोके) माहात्म्यमवाप्नोति स्वर्गेऽपि देवैः पूज्यते । तथा च हारीत: साधुपूजापरो राजा माहात्म्यं प्राप्य भूतले । स्वर्गगतस्ततो दवैरिन्द्राद्यैरपि पूज्यते ॥ १ ॥ अथ राजा यादृशो भवति तदाह--- राजा हि परमं दैवतं नासौ कस्मैचित्प्रणमत्यन्यत्र गुरुंजनेभ्यः ॥ ६७॥ टीका-योऽसौ राजा स किंविशिष्टः ? परमं दैवतं कर्तारमित्यर्थः । तेन कस्यचिन्नम्रतां न गच्छति । अन्यत्र गुरुजनेभ्यः पूज्यान् मुक्त्वा मातृपितृपूर्वकान् । तथा च भृगुः अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च तेजसास्य नृपस्तेन कस्यचिन्न नतिं व्रजेत् ॥ १॥ अथाशिष्टसकाशाद्विद्याया यद्भवति तदोहवरमज्ञानं नाशिष्टजनसेवया विद्या ॥ ६८ ॥ टीका-वरं प्रधानमज्ञानं मूर्खत्वं नाशिष्टजनसेवया दुर्जनसुश्रूषया विद्याया आप्तिः । तथा च हारीत: वरं जनस्य मूर्खत्वं नाशिष्टजनसेवया । पांडित्यं यस्य संसर्गात् पापात्मा जायते नृपः ॥ १॥ अथ शिष्टसंगादोषमाहअलं तेनामृतेन यत्रास्ति विषसंसर्गः ॥ ६९ ॥ १ शिष्टेष्विति मु. मू. पुस्तके । २ रिह परत्र च महीयत मु-पुस्तके, परलोके इति मू-पुस्तके पाठः। ३ कंसस्थः पाठः कल्पितः,। ४ परं देवं मूपुस्तके टीकायां च ५ देवगुरुजनेभ्यः मू-पुस्तके. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy