SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ६४ नीतिवाक्यामृते mmmmmmmmmm टीका-अलं पर्याप्तं तिष्ठतु तदमृतं, यत्रास्ति विषसंसर्गः। कालकूटमध्यगतं । एतदुक्तं भवति, अमृतमपि कालकूटमिश्रं मारयति, विद्या यामृतमपि कालकूटलक्षणात्पापजनाप्तं (?) तत्किचित् पापं करोति येन मृत्युमवाप्नोति । तथा च नारद: नास्तिकानां मतं शिष्यः पीयूषमिव मन्यते । दुःखावहं परे लोके नो चेद्विषमिव स्मृता ( तम् ) ॥१॥ अथ गुरूणां शिष्या यादृशा भवन्ति तानाहगुरुजनशीलमनुसरन्ति प्रायेण शिष्याः ॥ ७० ॥ टीका-ये शिष्या छात्रा भवन्ति ते प्रायेण बाहुल्येन गुरूणां शीलमनुसरन्ति तेन व्यवहरन्ति तस्मात् सुशीला गुरवः कार्याः । तथा च वर्ग: यादृशान् सेवते मर्त्यस्ताक्चेष्टा प्रजायते। . यादृशं स्पृशते देशं वायुस्तद्न्धमावहेत् ॥१॥ अथ सुकुलशीलगुरूसेवनाद्यद्भवति तदाह---- नवेषु मृद्भाजनेषु लग्नः संस्कारो ब्रह्मणाप्यन्यथा कर्तु न शक्यते ॥ ७१॥ टीका-शुभो वा यदि वा निकृष्टः तस्मात्सुमतिरुपाध्यायः कार्यः। तथा च वर्गः । कुविद्यां वा सुविद्यां वा प्रथमं यः पठेन्नरः। तथा कृत्यानि कुर्वाणो न कथंचिनिवर्तते ॥१॥ अथ राजा स्वल्पज्ञानो यथा भवति तदाहअन्ध इव वरं परप्रणेयो राजा न ज्ञानलवदुर्विदग्धः॥७२॥ १ अत्रत्यः पाठो व्युच्छिन्न इवाभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy