SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः । टीका-~~वरं श्रेष्ठं जात्यन्धो राजा अन्येन नीयमानः कुमार्गे नं गच्छति परप्रणेयो यतः । यः पुनः ज्ञानलवः स्तोकं जानाति न प्रभूतं स दुर्विदग्धो भवति विदग्धतां न वेत्ति नित्यं षाड्गुण्यविषये विपर्यस्तमाचरन्नुन्मार्गेण गच्छति, अन्यायी भवतीत्यर्थः । तथा च गुरु:___ मंत्रिभिमंत्रकुशलैरन्धः संचार्यते नृपः। कुमार्गेण न स याति स्वल्पज्ञानस्तु गच्छति ॥ २ ॥ अथ दुर्विदग्धस्य राज्ञो यद्भवति तदाह नीलीरक्ते वस्त्र इव को नाम दुर्विदग्धे राज्ञि रागान्तरमाधत्ते ॥ ७३ ॥ टीका-अहो को नाम जनो दुर्विदग्धे दुश्चेष्टिते भूपाले ज्ञानलवाश्रये रागान्तरमन्यभावं तस्य कर्तुं समर्थः, अपि तु न कश्चित् । कस्मिन्निव ? नीलीरक्ते वस्त्र इव, यथा नीलीवस्त्रे नान्यो लभते ( रागः ) न तु उत्सारयितुं शक्यते तथा भूपस्यापि । तथा च नारदः दुर्विदग्धस्य भूपस्य भावः शक्येत नान्यथा। कतुं वर्णोऽत्र यद्वच्च नीलीरक्तस्य वाससः ॥१॥ अथ यथार्थवादिनां विदुषां यद्भवति तदाहयथार्थवादो विदुषां श्रेयस्करो यदि न राजा गुणप्रद्वेषी।७४। टीका-यदि न राजा गुणान् द्वेष्टि निन्दति तदा यथार्थवादः स्फुटवचनानि परुषान्यपि सुखावहानि तद्विदुषां पण्डितानां श्रेयस्कराणि तस्य राज्ञो भवन्ति । किं ? यदि न स्यात् यदि राजा गुणहन्ता न भवति गुणशीलो भवति । तथा च हारीत:--- श्रेयस्कराणि वाक्यानि स्युरुक्तानि यथार्थतः। विद्वद्भिर्यदि भूपालो गुणद्वेषी न चेद्भवेत् ॥ १॥ १ 'ण' इति पाठः पुस्तके । २ नीले इति मु-पुस्तके। ३ आदत्ते इति मू-पुस्तके । ४ कल्पितोऽयं पाठः । नीति०-५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy