________________
५८
नीतिवाक्यामृते
योज्यमाना उपाध्यायैर्यत्र पुंसि स्थिराश्च ते ।
भवन्ति नरि द्रव्यं तत्प्रोच्यते पार्थिवोचितम् ॥१॥ अथ द्रव्यप्रकृतेर्यदि तदद्रव्यप्रकृतिर्भवति तस्य राजकुलस्य यादग्भवति तदाह
यतो द्रव्यप्रकृतेरप्यस्ति पुरुषः संकीर्णगजवत् ॥ ४२ ॥ टीका-यतः कारणात् द्रव्यप्रकृतेरुत्तमपुरुषस्य सर्वगुणयुक्तस्य सकाशात् कचित् पुरुषः संकीर्णगजसदृशो भवति मिश्रगुणः । यथा भद्रमन्दरमृगजात्यो मिश्रगुणो गजः स राजा) न भवति तथा सोऽपि द्रव्यप्रकृतिः पुरुषो द्रव्यप्रकृतिना जातोऽपि। तथा च वल्लभदेवः
शिष्टात्मजो विदग्धोऽपि द्रव्याद्रव्यस्वभावकः ।
न स्याद्राज्यपदार्होऽसौ गजो मिश्रगुणो यथा ॥१॥ तथा च गुरुः
यः स्यात् सर्वगुणोपेतो राजद्रव्यं तदुच्यते । सर्वकृत्येषु भूपानां तदर्ह कृत्यसाधनं ॥ १ ॥ अथ द्रव्यभूतस्य पुरुषस्य यद्भवति तदाहद्रव्यं हि क्रियां विनयति नाद्रव्यं ॥ ४३ ॥ टीका--हि यस्मात्कारणात् यत्पुरुषद्रव्यं भवति तत् क्रियां राजलक्षणां विनयति भोग्यतां नयति । नाद्रव्यं, गुणच्युतं । तथा च भागुरेिः
गुणाढयैः पुरुषैः कृत्यं भूपतीनां प्रसिद्धयति ।
महत्तरमपि प्रायो निर्गुणैरपि नो लघु ॥ १॥ अथ बुद्धिगुणानां लक्षणमाहसुश्रूषाश्रवणग्रहणधारणाविज्ञानोहापोहतत्त्वाभिनिवेशा बुद्धिगुणाः ॥४४॥
१ द्रव्याद्रव्यप्रकृतिरपीति मु-पुस्तके । २ भिनिवेशविद्या इति बुद्धिगुणा, मु-पु. ह्यष्टौ बुद्धिगुणा इति मू-पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org