________________
विद्यावृद्धसमुद्देशः ।
५७
अथ दुर्विनीताद्राज्ञः सकाशात् प्रजानां यद्भवति तदाहने दुर्विनीताद्राज्ञः प्रजानां विनाशादपरोऽस्त्युत्पातः ॥३९॥
टीका-प्रजानां लोकानां दुर्विनीताद्राज्ञः सकाशात् अन्य उत्पातो विनाशलक्षणो नास्ति न विद्यते । उत्पातैभूमिकम्पादिभिः किल प्रजाक्षयो भवति तेषां सकाशादपि अधिक उत्पातो दुश्चेष्टितस्य भूपतेः सकाशाद्भवति । तथा च हारीत:
उत्पातो भूभिकम्पाद्यः शांतिकैर्याति सौम्यतां ।
नृपदुर्वृत्त उत्पातो न कथंचित्प्रशाम्यति ॥१॥ अथ दुर्विनीतस्ये नृपतेर्लक्षणमाहयो युक्तायुक्तयोरविवेकी विपर्यस्तमतिर्वा स दुर्विनीतः४० टीका--यो राजा युक्तायुक्तयोर्योग्यायोग्ययोः पदार्थयोः विषयेऽविवेकी विवेकहीनो बुद्धया न जानाति, अयोग्यानां प्रसादं करोति, योग्यानामपमानं करोति स दुर्विनीतः। तथा यो विपर्यस्तमतिर्विपरीतबुद्धिर्वा यः शिष्टानामाचारं न मन्यते पापानां करोति स विपर्यस्तमतिः । तथा च नारदः
युक्तायुक्तविवेकं यो न जानाति महीपतिः।
दुर्वृत्तः स परिशेयो यो वा वाममतिर्भवेत् ॥११॥ अथ द्रव्यस्य लक्षणमाहयत्र सद्भिराधीयमाना गुणा संक्रामन्ति तद्व्यं ॥ ४१ ॥ टीका--यत्र यस्मिन् पुरुषद्रव्ये सद्भिः शिष्टैराधीयमाना नियोज्यमाना गुणाः संक्नामन्ति स्थिराः स्युस्तद्र्व्यं राजाहः स्यात् । तथा च भागुरिः
१ न पुनरिति मु-पुस्तके । २ युक्तायुक्तयोगवियोगयोरविवेकमतिर्वा स दुर्विनीतः इति मु-पुस्तके सूत्रं । ३ अविवेकमतिरिति मू-पुस्तके पाठः । ४ विपर्यायमतिर्वेति मु-पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org