SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ५६ नीतिवाक्यामृते ___ अथ मूर्तः पुमान् यथा भवति तदाह___ न ह्यज्ञानादपरः पशुरस्ति ॥ ३६॥ टीका-अस्मिन् जगति अज्ञानान्मूर्खादन्यो द्वितीयः पशुर्नास्ति । यतः पशुस्तृणानि भक्षयति ततो मूत्रपुरीषक्रियां करोति तथा मूर्योऽपि खानपानाचं मूत्रपुरीषे च केवलं करोति, धर्माधौं न जानाति । तथा च वशिष्ठः-- मया मूर्खतमा लोकाः पशवः शृङ्गवर्जिताः। धर्माधर्मों न जानन्ति यतः शास्त्रपराङ्मुखाः॥१॥ अथ भुवनं यादृशेन राज्ञा वृद्धिं न याति तथाह वरमराजकं भुवनं न तु मूर्यो राजा ॥ ३७॥ टीका-वरं अराजकं भूपतिहीनं भुवनं न तु मूर्खभूपालाधिष्ठितं ।। तथा च गुरु: अराजकानि राष्ट्राणि रक्षन्तीह परस्परम् । मूखों राजा भवेद्येषां तानि गच्छन्ति संक्षयं ॥१॥ अथ कुमारो यथा पदवीमाप्नोति तदाह असंस्कारं रत्नमिव सुजातमपि राजपुत्रं न नायकपदायामनन्ति साधवः ॥ ३८॥ ____टीका-यस्य राजपुत्रस्य सुजातस्यापि कुलीनस्यापि संस्कारः कौशल्यं न भवति तं नायकत्वे यौवराज्यपदे नामनन्ति न वाञ्छन्ति सर्वाः प्रकृतयः यत् युवराजोऽयं भवतु । कथं, रत्नमिव परं संस्काररहितं, यावच्छाणौ लीढं ( न ) क्रियते सुजातमपि समुद्रोत्पन्नमपि । नायकत्वे न मन्यते यथा रत्नमसंस्कृतं । १ अन्यः इति मु-पुस्तके पाठान्तरं । २ त्विति मु-मू-पुतस्के नास्ति । ३ अकृतसंस्कारं मु-पुस्तके । ४ नीतिमन्तः इति मू-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy