SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्दशः। पौरुषान्मृगनाथस्तु हरिः स प्रोच्यते जनः । शास्त्रबुद्धिविहनिस्तु यतो नाशं स गच्छति ॥ १ ॥ अथ शास्त्ररहितस्य नृपतेर्यद्भवति तदाहअशस्त्रः शूर इवाशास्त्रः प्रज्ञावानपि भवति विद्विषों वशः३३ टीका-यथा शस्त्ररहित आयुधवर्जितः पुमान् शूरोऽपि चौरादीनां गम्यो भवति तथा शास्त्ररहितः शूरोपि पुमान् प्रज्ञावानपि सर्वेषां चौरादीनां गोचरो गम्यो भवति तथा च गुरु:---- नीतिशास्त्रविहीनो यः प्रज्ञावानपि हन्यते । परैः शस्त्रविहीनस्तु चौराद्यैरपि वीर्यवान् ॥ १॥ अथ शास्त्रं पुरुषस्य यथा भवति तदाहअलोचनगोचरे ह्यर्थे शास्त्रं तृतीयं लोचनं पुरुषाणाम् ॥३४॥ टीका-अर्थशब्देन प्रयोजनमभिधीयते । यत्प्रयोजनं लोचनाभ्यां न दृश्यते तस्य दर्शनार्थ तृतीयं लोचनं शास्त्रं भवति । एतदुक्तं भवति, तत्प्रयोजनं शास्त्रदृष्टया ज्ञेयं, युक्तमयुक्तं भवति न वेति निश्चयः कार्यः । तथा च गुरु:____ अदृश्यो निजचक्षुभ्यो कार्य सन्देहमागते। शास्त्रेण निश्चयः कार्यस्तदर्थं च क्रिया ततः ॥१ ।। अथ शास्त्रहीनः पुमान् यथा भवति तदाहअनधीतशास्त्रश्चक्षुष्मानपि पुमानन्ध एव ॥ ३५ ॥ . टीका-येन पुरुषेण शास्त्रं पठितं न भवति स लोचनसहितोऽप्यन्ध एव ज्ञेयः । तथा च भागुरिः-- शुभाशुभं न पश्येच्च यथान्धः पुरतः स्थितं । शास्त्रहीनस्तथा मयों धर्माधर्मों न विन्दति ॥१॥ १ अशास्त्रज्ञ इति मु-पुस्तके । २ सर्वेषां गोचरं मु-मू.-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy